________________
दशवैका
पाण्डुमृदश्च, यदा कृष्णमृदा कलुषितमुदकं भवति तदाऽसौ कृष्णमृदु उदकस्य पाण्डुमृदश्च शस्त्रं भवति, ४ षड्जीवहारि-वृत्तिः एवं(तत्)तु द्रव्यशस्त्रं, तुशब्दोऽनेकप्रकारविशेषणार्थः, एतदनेकप्रकारं द्रव्यशस्त्रम्, 'भाव' इति द्वारपरामर्शः,
निकाध्य. असंयमः शस्त्रं चरणस्येति गाथार्थः॥ एवं च परिणतायां पृथव्यामुच्चारादिकरणेऽपि नास्ति तदतिपात इत्य
जीवस्वरूपं ॥१३९॥
हिंसकत्वोपपत्तेः संभवी साधुधर्म इति । एष तावदागमः, अनुमानमप्यत्र विद्यते-सात्मका विद्रुमलवणोपलादयः पृथिवीविकाराः, समानजातीयाकुरोत्पत्त्युपलम्भात्, देवदत्तमांसाङ्कुरवत्, एवमागमोपपत्तिभ्यां व्य
वस्थितं पृथिवीकायिकानां जीवत्वम्, उक्तं च-"आगमश्चोपपत्तिश्च, संपूर्ण दृष्टिलक्षणम् । अतीन्द्रियाणा६मर्थानां, सद्भावप्रतिपत्तये ॥१॥ आगमो ह्याप्तवचनमाप्तं दोषक्षयाद्विदुः । वीतरागोऽनृतं वाक्यं, न ब्रूयाद्धे-18 |वसंभवात् ॥२॥” इत्यलं प्रसङ्गेन । एवमापश्चित्तवत्य आख्याताः, तेजश्चित्तवदाख्यातं, वायुश्चित्तवाना-1 ख्यातः, वनस्पतिश्चित्तवानाख्यातः, इत्याद्यपि द्रष्टव्यम् । विशेषस्त्वभिधीयते-सात्मकं जलं, भूमिखातखाभाविकसंभवात्, दर्दुरवत् । सात्मकोऽग्निः, आहारेण वृद्धिदर्शनात्, बालकवत् । सात्मकः पवनः, अपरप्रेरिततिर्यग्निगनियमितदिग्गमनाद, गोवत्।सचेतनास्तरवः, सर्वत्वगपहरणे मरणाद, गर्दभवत् । वनस्पतिजीवविशेषप्रतिपादनायाह-तंजहा अग्गबीया' इत्यादि, तद्यथेत्युपन्यासार्थः, अग्रवीजा इति-अयं बीजं येषां ते अग्रबीजा:-कोरण्टकादयः, एवं मूलं बीजं येषां ते मूलबीजा-उत्पलकन्दादयः, पर्व बीजं येषां ते पर्वबीजा ॥१३९॥ -इक्ष्वादयः, स्कन्धो बीजं येषां ते स्कन्धबीजाः-शल्लक्यादयः, तथा बीजाद्रोहन्तीति बीजरूहाः-शाल्यादयः,
RANSKARSARKARAN
For Private Personal Use Only
N
Jain Education in
ainelibrary.org