________________
रिणतां पृथिवीं विहाय-परित्यज्यान्या चित्तवत्याख्यातेत्यर्थः । अथ किमिदं पृथिव्याः शस्त्रमिति शस्त्रप्रस्तावात्सामान्यत एवेदं द्रव्यभावभेदभिन्नं शस्त्रमभिधित्सुराह___दव्वं सत्थग्गिविसंनेहबिल खारलोणमाईयं । भावो उ दुप्पउत्तो वाया काओ अविरई अ ॥ २३०॥
व्याख्या-'द्रव्य'मिति द्वारपरामर्शः, तत्र द्रव्यशस्त्रं खड्गादि, अग्निविषलेहाम्लानि प्रसिद्धानि, 'क्षारलवMणादीनि' अत्र तु क्षारः-करीरादिप्रभवः, लवणं-प्रतीतम्, आदिशब्दात्करीषादिपरिग्रहः । उक्तं द्रव्यशस्त्रम्, * अधुना भावशस्त्रमाह-भावस्तु दुष्प्रयुक्तौ वाकायौ अविरतिश्च भावशस्त्रमिति, तत्र भावो दुष्पयुक्त इत्यनेनी द्रोहाभिमानेादिलक्षणो मनोदुष्प्रयोगो गृह्यते, वाग्दुष्प्रयोगस्तु हिंस्रपरुषादिवचनलक्षणः, कायदुष्पयोगस्तु धावनवल्गनादिः, अविरतिस्त्वविशिष्टा प्राणातिपातादिपापस्थानकप्रवृत्तिः, एतानि स्वपरव्यापादकत्वात्कर्मबन्धनिमित्तत्वाझावशस्त्रमिति गाथार्थः॥ इह न भावशस्त्रेणाधिकारः, अपितु द्रव्यशस्त्रेण, तच त्रिप्रकारं भवतीत्याह
किंची सकायसत्थं किंची परकाय तदुभयं किंचि । एयं तु दव्वसत्थं भावे अस्संजमो सत्थं ॥ २३१ ॥ व्याख्या-किंचित्खकायशस्त्रं, यथा कृष्णा मृद नीलादिमृदः शस्त्रम्, एवं गन्धरसस्पर्शभेदेऽपि शस्त्रयोजना कार्या, तथा 'किञ्चित्परकायेति परकायशस्त्रं, यथा पृथ्वी अप्तेजःप्रभृतीनाम् अतेजाप्रभृतयो वा पृ
थिव्याः, 'तदुभयं किञ्चिदिति किञ्चित्तदुभयशस्त्रं भवति, यथा कृष्णा मृदू उदकस्य स्पर्शरसगन्धादिभिः दश०२४
ॐॐॐॐॐॐॐ
Jain Education in
For Private & Personal Use Only
Selainelibrary.org