________________
दशवैका० हारि-वृत्तिः
EASE
४ षड्जीवनिकाध्य० जीवस्वरूपं
॥१३८॥
| वनस्पतिकायिकाः। एवं त्रसनशीलास्त्रसाः-प्रतीता एव, त्रसाः काया:-शरीराणि येषां ते त्रसकायाः, त्रसकाया एव सकायिकाः । इह च सर्वभूताधारत्वात् पृथिव्याः प्रथमं पृथिवीकायिकानामभिधानं, तदनन्तरं तत्प्रतिष्ठितत्वादप्कायिकानामपि, तदनन्तरं तत्प्रतिपक्षत्वात्तेजस्कायिकानां, तदनन्तरं तेजस उपष्टम्भकत्वाद्वायुकायिकानां, तदनन्तरं वायोः शाखाप्रचलनादिगम्यत्वाद्वनस्पतिकायिकानां, तदनन्तरं वनस्पतेस्त्रसोपग्राहकत्वात्रसकायिकानामिति । विप्रतिपत्तिनिरासार्थ पुनराह–'पुढवी चित्तमंतमक्खाया' 'पृथिवी' उक्तलक्षणा 'चित्तवती'ति चित्तं-जीवलक्षणं तदस्या अस्तीति चित्तवती-सजीवेत्यर्थः, पाठान्तरं वा 'पुढवी चित्तमत्तमक्खाया' अत्र मात्रशब्दः स्तोकवाची, यथा सर्षपत्रिभागमात्रमिति, ततश्च चित्तमात्रा-स्तोकचित्ते| त्यर्थः, तथा च प्रबलमोहोदयात्सर्वजघन्यं चैतन्यमेकेन्द्रियाणां, तश्यधिकं द्वीन्द्रियादीनामिति, 'आख्याता' सर्वज्ञेन कथिता, इयं च 'अनेकजीवा' अनेके जीवा यस्यां साऽनेकजीवा, न पुनरेकजीवा, यथा वैदिकानां 'पृथिवी देवतेत्येवमादिवचनप्रामाण्यादिति । अनेकजीवाऽपि कैश्चिदेकभूतात्मापेक्षयेष्यत एव, यथाहुरेके| "एक एव हि भूतात्मा, भूते भूते व्यवस्थितः। एकधा बहुधा चैव, दृश्यते जलचन्द्रवत् ॥१॥” अत आह
-'पृथक्सत्त्वा' पृथग्भूताः सत्त्वा-आत्मानो यस्यां सा पृथक्सत्त्वा, अकुलासंख्येयभागमात्रावगाहनया पारमार्थिक्याऽनेकजीवसमाश्रितेति भावः । आह-यद्येवं जीवपिण्डरूपा पृथिवी ततस्तस्यामुचारादिकरणे नियमतस्तदतिपातादहिंसकत्वानुपपत्तिरित्यसंभवी साधुधर्म इत्यत्राह-'अन्यत्र शस्त्रपरिणताया शस्त्रप
%252515
॥१३८॥
Jain Education
a
l
For Private Personal Use Only
HIMww.jainelibrary.org