________________
आत्मनोऽध्येतुम्, 'अध्येतु'मिति पठितुं श्रोतुं भावयितुं, कुत इत्याह-'अध्ययनं धर्मप्रज्ञप्तिः' 'निमि
सकारणहेतुषु सर्वासां प्रायो दर्शन मिति वचनात् हेतौ प्रथमा, अध्ययनवाद्-अध्यात्मानयनाचेतसो ति विशुद्ध्यापादनादित्यर्थः, एतदेव कुत इत्याह-धर्मप्रज्ञप्ते' प्रज्ञपनं प्रज्ञप्तिः धर्मस्य प्रज्ञप्तिः धर्मप्रज्ञप्तिः
ततो धर्मप्रज्ञसः कारणाचेतसो विशुद्ध्यापादनं चेतसो विशुद्ध्यापादनाच श्रेय आत्मनोऽध्येतुमिति । ||अन्ये तु व्याचक्षते-अध्ययनं धर्मप्रज्ञप्तिरिति पूर्वोपन्यस्ताध्ययनस्यैवोपादेयतयाऽनुवादमात्रमेतदिति ॥ शिष्यः पृच्छति-कतरा खल्वि'त्यादि, सूत्रमुक्तार्थमेव, अनेनैतद्दर्शयति-विहायाभिमानं संविग्नेन शिष्येण सर्वकार्येष्वेव गुरुः प्रष्टव्य इति, आचार्य आह-इमा खल्वि'त्यादि सूत्रमुक्तार्थमेव, अनेनाप्येतद्दर्शयति-गुणवते शिष्याय गुरुणाऽप्युपदेशो दातव्य एवेति । 'तंजहा-पुढविकाइया' इत्यादि, अत्र 'तद्यथे'त्युदाहरणोपन्यासार्थः, पृथिवी-काठिन्यादिलक्षणा प्रतीता सैव काय:-शरीरं येषां ते पृथिवीकायाः पृथिवीकाया एव पृथिवीकायिकाः, स्वार्थिकष्ठक, आपो-द्रवाः प्रतीता एव ता एव कायः-शरीरं येषां तेऽप्कायाः अप्काया एव अप्कायिकाः। तेज-उष्णलक्षणं प्रतीतं तदेव काया-शरीरं येषां ते तेज:कायाः तेजाकाया एव तेजःकायिकाः । वायु:-चलनधर्मा प्रतीत एव स एव काय:-शरीरं येषां ते वायुकायाः वायुकाया एव वायुकायिकाः । वनस्पतिः-लतादिरूपः प्रतीतः, स एव काय:-शरीरं येषां ते वनस्पतिकायाः, वनस्पतिकाया एव
१ विभक्तीना.
COMRANGILOCALSOCIRCRACANCE
JainEducation ineral
For Private Personal use only