________________
दशवैका० आवकहाए गुरुकुलवासं न मुंचंति॥१॥" अथवा 'आमुसंतेणं' आमृशता भगवत्पादारविन्दयुगलमुत्तमा- ४ षड्जीवहारि-वृत्तिः | ड्रेन, अनेन च विनयप्रतिपसेर्गरीयस्त्वमाह, विनयस्य मोक्षमूलत्वात्, उक्तं च-"मूलं संसारस्सा होंति दनिकाध्य
कसाया अणंतपत्तस्स । विणओ ठाणपउत्तो दुक्खविमुक्खस्स मोक्खस्स ॥१॥” कृतं प्रसङ्गेन, प्रकृतं प्रस्तुमः ॥१३७॥
जीवस्वरूपं -तत्र इह खलु षड्जीवनिकायिकानामाध्ययनमस्तीत्युक्तम्, अत्राह-एषा षड्जीवनिकायिका केन प्रवेदिता प्ररूपिता वेति?, अत्रोच्यते, तेनैव भगवता, यत आह-'समणेणं भगवया महावीरेणं कासवेणं पवेड्या सुअक्खाया सुपन्नत्ते'ति, सा च तेन 'श्रमणेन' महातपखिना 'भगवता' समग्रैश्वर्यादियुक्तेन 'महावीरण' |'शूर वीर विक्रान्ताविति कषायादिशत्रुजयान्महाविक्रान्तो महावीरः, उक्तं च-"विदारयति यत्कर्म, तपसा च विराजते । तपोवीर्येण युक्तश्च, तस्माद्वीर इति स्मृतः॥१॥” महांश्चासौ वीरश्च महावीरः तेन महावीरेण, 'काश्यपेने ति काश्यपसगोत्रेण, 'प्रवेदिता' नान्यतः कुतश्चिदाकर्ण्य ज्ञाता किं तर्हि?, स्वयमेव केवलालोकेन प्रकर्षेण वेदिता प्रवेदिता-विज्ञातेत्यर्थः, तथा 'खाख्यातेति सदेवमनुष्यासुरायां पर्षदि सुष्ठ आख्याता वाख्याता, तथा 'सुप्रज्ञप्तेति सुष्टु प्रज्ञप्ता यथैवाख्याता तथैव सुष्टु-सूक्ष्मपरिहारासेवनेन प्रकर्षण सम्यगासेवितेत्यर्थः, अनेकार्थत्वाद्धातूनां ज्ञपिरासेवनार्थः, तां चैवंभूतां षड्जीवनिकायिकां 'श्रेयो मेऽध्येतुं' श्रेयः-पथ्यं हितं, ममेत्यात्मनिर्देशः, छान्दसत्वात्सामान्येन ममेत्यात्मनिर्देश इत्यन्ये, ततश्च श्रेय
॥१३७॥ मूलं संसारस्य भवन्ति कषाया अनन्तपत्रस्य । विनयः स्थानप्रयुक्तो दुःखविमुक्तस्य मोक्षस्य ॥१॥ २ आत्मार्थः,
ति काणयुक्तच, तमसान्महाविकालना
Jain Education
For Private Personal use only
jainelibrary.org