________________
%95453
प्रधानगुणनिष्पन्नेनामन्त्रणवचसा गुणवते शिष्यायागमरहस्यं देयं नागुणवत इत्याह, तदनुकम्पाप्रवृत्तेरिति, उक्तं च-"आमे घडे निहत्तं जहा जलं तं घडं विणासेई । इअ सिद्धतरहस्सं अप्पाहारं विणासेइ ॥१॥" आयुश्च प्रधानो गुणः, सति तस्मिन्नव्यवच्छित्तिभावात्, तथा तेन भगवता एवमाख्यात'मित्यनेन खमनीषिकानिरासाच्छास्त्रपारतठ्यप्रदर्शनेन न घसर्वज्ञेन अनात्मवता अन्यतस्तथाभूतात्सम्यगनिश्चित्य परलोकदेशना कार्येत्येतदाह, विपर्ययसंभवाद, उक्तं च-"किं इत्तो पावयरं? संमं अणहिगयधम्मसम्भावो । अण्णं कुदेसणाए कट्ठयरागंमि पाडेइ ॥१॥” अथवाऽन्यथा व्याख्यायते सूत्रैकदेशः-'आउसंतेणं'ति भगवत एव विशेषणम् , आयुष्मता भगवता-चिरजीविनेत्यर्थः, मङ्गलवचनं चैतद्, अथवा जीवता साक्षादेव, अनेन च गणधरपरम्परागमस्य जीवनविमुक्तानादिशुद्धवक्तुश्चापोहमाह, देहाद्यभावेन तथाविधप्रयत्नाभावात्, उक्तं च-"वैयणं न कायजोगाभावे ण य सो अणादिसुद्धस्स । गहणंमि य णो हेऊ सत्थं अत्तागमा कह णु ॥१॥" अथवा 'आवसंतेणं'ति गुरुमूलमावसता, अनेन च शिष्येण गुरुचरणसेविना सदा भाव्य| मित्येतदाह, ज्ञानादिवृद्धिसद्भावाद, उक्तं च-"णाणस्स होइ भागी थिरयरओ दंसणे चरित्ते य । धन्ना
आमे घटे निहितं यथा जलं तं घट विनाशयति । इति ( एवं) सिद्धान्तरहस्यमल्पाधारं विनाशयति ॥१॥ २ किमेतस्मात्पापकरं सम्यगनधिगतधमा सद्भावः । अन्यं कुदेशनया कष्टकरागसि पातयति ॥१॥३वचनं न काययोगाभावे न च सोऽनादिशुद्धस्य । प्रहणे च नो हेतुः शास्त्रमात्मागमः (आतापमा। कथं नु? ॥१॥ ४ कायस्येति. ५ ज्ञानस्य भागी भवति स्थिरतरः दर्शने चारित्रे च । धन्या यावत्कथं गुरुकुलवासं न मुञ्चन्ति ॥१॥
in Educatari
a
For Private & Personal Use Only
W
ww.jainelibrary.org