________________
दशवैका० हारि-वृत्तिः ॥१३६॥
षड्जीवनिकाध्य जीवस्वरूपं
चिंदिया सव्वे तिरिक्खजोणिया सव्वे नेरइया सव्वे मणुआ सव्वे देवा सव्वे पाणा
परमाहम्मिआ। एसो खलु छट्टो जीवनिकाओ तसकाउ ति पवुच्चइ ॥ (सूत्रं १) श्रूयते तदिति श्रुतम्-प्रतिविशिष्टार्थप्रतिपादनफलं वाग्योगमात्रं भगवता निसृष्टमात्मीयश्रवणकोटरप्रविष्टं क्षायोपशमिकभावपरिणामाविर्भावकारणं श्रुतमित्युच्यते, श्रुतमवधृतमवगृहीतमिति पर्यायाः, 'मयेत्यात्मपरामर्शः, आयुरस्यास्तीत्यायुष्मान् तस्यामन्त्रणं हे आयुष्मन्!, कः कमेवमाह?-सुधर्मखामी जम्बूखामिनमिति, 'तेने ति भुवनभर्तुः परामर्शः, भगः-समग्रैश्वर्यादिलक्षण इति, उक्तं च-"ऐश्वर्यस्य समग्रस्य, रूपस्य यशसः श्रियः। धर्मस्याथ प्रयत्नस्य, षण्णां भग इतीङ्गना ॥१॥" सोऽस्यास्तीति भगवांस्तेन भगवता-वर्धमानखामिनेत्यर्थः, 'एव मिति प्रकारवचनःशब्दः, 'आख्यात'मिति केवलज्ञानेनोपलभ्यावेदितं, किमत आह-इह खलु षड्जीवनिकायनामाध्ययनम् , अस्तीति वाक्यशेषः, 'इहेति लोके प्रवचने वा, खलुशब्दादन्यतीर्थकृप्रवचनेषु च, 'षड्जीवनिकायेति पूर्ववत्, 'नामे त्यभिधानम्, 'अध्ययन मिति पूर्ववदेव । इह च 'श्रुतं मयेत्यनेनात्मपरामर्शेनैकान्तक्षणभङ्गापोहमाह, तत्रेत्थंभूतार्थानुपपत्तेरिति, उक्तं च,-"एगंतखणियपक्खे गहणं चिअ सव्वहा ण अत्थाणं । अणुसरणसासणाई कुओ उ तेलोगसिद्धाइं? ॥१॥” तथा 'आयुष्मन्निति च
१ एकान्तक्षणिकपक्षे प्रहणमेव सर्वथा नार्थानाम् । अनुस्मरणशासनानि कुतस्तु त्रैलोक्य (ते लोक०) सिद्धानि ॥ १॥ २ °लोक. प्र.
॥१३६॥
Join Education in
For Private & Personel Use Only
INMainelibrary.org