SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ Jain Education In *%% संमूर्च्छन्तीति संमूच्छिमाः - प्रसिद्ध बीजाभावेन पृथिवीवर्षादिसमुद्भवास्तथाविधास्तृणादयः, न चैते न संभवन्ति, दग्धभूमावपि संभवात्, तथा तृणलतावनस्पतिकायिका इति, अत्र तृणलताग्रहणं स्वगतानेकभेदसंदर्शनार्थ, वनस्पतिकायिकग्रहणं सूक्ष्मवादराद्यशेषवनस्पतिभेदसंग्रहार्थम्, एतेन पृथिव्यादीनामपि खगताः भेदाः पृथिवीशर्करादयः तथाऽवश्यायमिहिकादयः तथा अङ्गारज्वालादयः, तथा झन्झामण्डलिकादयो [भेदाः] सूचिता इति । 'सबीजाश्चित्तवन्त आख्याता' इति एते ह्यनन्तरोदिता वनस्पतिविशेषाः सवीजा: - खखनिबन्धनाश्चित्तवन्तः - आत्मवन्त आख्याताः कथिताः । एते च अनेकजीवा इत्यादि ध्रुवगण्डिका पूर्ववत् । सबीजाश्चित्तवन्त आख्याता इत्युक्तम्, अत्र च भवत्याशङ्का - किं बीजजीव एव मूलादिजीवो भवत्युतान्यस्तस्मिन्नुकान्ते उत्पद्यते इति ?, अस्य व्यपोहायाह Aीए जोणिन्भूए जीवो वुक्कमइ सो य अन्नो वा । जोऽवि य मूले जीवो सोऽवि य पत्ते पढमयाए ॥ २३२ ॥ व्याख्या- बीजे योनिभूते इति, बीजं हि द्विविधं भवति - योनिभूतमयोनिभूतं च, अविध्वस्तयोनि विध्वस्तयोनि च, प्ररोहसमर्थं तदसमर्थं चेत्यर्थः । तत्र योनिभूतं सचेतनमचेतनं च, अयोनिभूतं तु नियमादचेतनमिति । तत्र बीजे योनिभूते इत्यनेनायोनिभूतस्य व्यवच्छेदमाह, तत्रोत्पत्त्यसंभवाद्, अबीजत्वादित्यर्थः । योनिभूते तु - योन्यवस्थे बीजे, योनिपरिणाममत्यजतीत्युक्तं भवति, किमित्याह-जीवो व्युत्क्रामति - उत्पद्यते, स एव- पूर्वको बीजजीवः, बीजनामगोत्रे कर्मणी वेदयित्वा मूलादिनामगोत्रे चोपनिबद्ध्य, अन्यो वा पृथिवी For Private & Personal Use Only jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy