________________
दशका हारि-वृत्तिः
॥ १३४ ॥
Jain Education
जीवस्स उ परिमाणं वित्थरओ जाव लोगमेत्तं तु । ओगाहणा य सुहुमा तस्स पएसा असंखेज्जा ॥ ५६ ॥ भाष्यम् ॥
व्याख्या - जीवस्य तु परिमाणं विततस्य 'विस्तरतो' विस्तरेण यावल्लोकमात्रमेव, एतच्च केवलिसमुद्घातचतुर्थसमये भवति, तत्रावगाहना च 'सूक्ष्मा' विततैकैकप्रदेशरूपा भवति, 'तस्य' जीवस्य प्रदेशाश्वासंख्येयाः सर्व एव लोकाकाशप्रदेशतुल्या इति गाथार्थः । अनेकेषां जीवानां गणनापरिमाणमाह
पत्थेण व कुलएण व जह कोइ मिणेज्ज सव्वधन्नाई । एवं मविजमाणा हवंति लोगा अनंता उ ॥ ५७ ॥ भाष्यम् ॥ व्याख्या- 'प्रस्थेन वा' चतुःकुडवमानेन 'कुडवेन वा' चतुःसेतिकामानेन यथा कश्चित्प्रमाता मिनुयात् 'स धान्यानि व्रीह्मादीनि एवं मीयमाना असद्भावस्थापनया भवन्ति लोका अनन्तास्तु, जीवभृता इति भावः । आह-यद्येवं कथमेकस्मिन्नेव ते लोके माता इति ?, उच्यते, सूक्ष्मावगाहनया, यत्रैकस्तत्रानन्ता व्यवस्थिताः, इह तु प्रत्येकावगाहनया चिन्त्यन्ते इति न दोषः, दृष्टं च बादरद्रव्याणामपि प्रदीपप्रभापरमाण्वादीनां तथापरिणामतो भूयसामेकत्रैवावस्थानमिति गाथार्थः ॥ व्याख्यातं द्वितीयमूलद्वारगाथायां परिमाणद्वारं, तद्व्याख्यानाच्च द्वितीया मूलद्वारगाथा जीवपदं चेति । साम्प्रतं निकायपदं व्याचिख्यासुराह—
uri ठवणसरीरे गई णिकायत्थिकाय दविए य । माउगपज्जवसंगहमारे तह भावकाए य ।। २२८ ॥
व्याख्या -नामस्थापने क्षुण्णे, शरीरकायः शरीरमेव, तत्प्रायोग्याणुसंघातात्मकत्वात्, गतिकायो-यो भवान्तरगतौ, स च तैजसकार्मणलक्षणः, निकायकायः - षड्जीवनिकायः, अस्तिकायो - धर्मास्तिकायादि:, द्रव्य
For Private & Personal Use Only
४ षड्जीवनिकाध्य० जीवस्वरूपं
॥ १३४ ॥
www.jainelibrary.org