________________
।
मृन्मयो घटस्तन्तुमयः पट इत्यादि, न पुनरात्मा, नित्य इति दर्शितम् । आह-अस्मिन् द्वारे सति 'अमयो नतु मृन्मय इव घट' इति प्राक्किमर्थमुक्तमिति, उच्यते, अत एव द्वारादनुग्रहार्थमुक्तमिति लक्ष्यते, भवति चासकृच्छ्रवणादकृच्छ्रेण परिज्ञानमित्यनुग्रहः, अतिगम्भीरत्वाद्भाष्यकाराभिप्रायस्य न (वा) वयमभिप्राय विद्म इति । अन्ये त्वभिदधति-अन्यकर्तृकैवासी गाथेति गाथार्थः ॥ व्याख्यातं द्वितीयमूलद्वारगाथायां निर्मयद्वारम्, अधुना साफल्यद्वारावसरः, तथा चाह भाष्यकार:
साफल्लदारमहुणा निच्चानिञ्चपरिणामिजीवम्मि । होइ तयं कम्माणं इहरेगसभावओऽजुत्तं ॥ ५५ ॥ भाष्यम् । __ व्याख्या-साफल्यद्वारमधुना-तदेतद्व्याख्यायते, नित्यानित्य एव परिणामिनि जीव इति योगः, भवति तत् साफल्यं कालान्तरफलप्रदानलक्षणम् , केषामित्याह-कर्मणां-कुशलाकुशलानां, कालभेदेन कर्तृभोक्तृपरिणामभेदे सत्यात्मनस्तदुभयोपपत्तेः कर्मणां कालान्तरफलप्रदानमिति, 'इतरथा' पुनर्ययेवं नाभ्युपगम्यते तत एकखभावत्वतः कारणादयुक्तं 'तत्' कर्मणां साफल्यमिति, एतदुक्तं भवति-यदि नित्य आत्मा कर्तृवभाव एव कुतोऽस्य भोगः१, भोक्तखभावत्वे चाकर्तृत्वं, क्षणिकस्य तु कालद्वयाभावादेवैतदुभयमनुपपन्नम् , उभये च सति कालान्तरफलप्रदानेन कर्म सफलमिति गाथार्थः॥ द्वितीयमूलद्वारगाथायां व्याख्यातं साफल्यद्वारम् , अधुना परिमाणद्वारमाह
१ भाष्यगाथा ४९ अन्त्यभागः,
-SCARSA
in Edualan d
ia
For Private & Personel Use Only
law.jainelibrary.org