SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ दशवैका ० हारि-वृत्तिः ॥ १३३ ॥ Jain Education In ज्ञेयः, अमेन गुणगुणिनोर्भेदाभेदमाह, ते भोगयोगोपयोगादयो गुणा इति, आदिशब्दादमूर्त्तत्वादिपरिग्रहः, निदर्शनमाह-रूपादय इव घटस्य गुणा इति गाथार्थः ॥ व्याख्यातं मूलद्वारगाथायां गुणिद्वारम् अधुनोर्ध्वगतिद्वारावसर इत्याह भाष्यकार: उडुंगइत्ति अहुणा अगुरुलहुत्ता सभावउडगई । दिट्टंतलाउएणं एरंडफलाइएहिं च ॥ ५३ ॥ भाष्यम् ॥ व्याख्या- ऊर्द्धगतिरित्यधुना द्वारं तदेतद्व्याख्यायते, अगुरुलघुत्वात्कारणात्स्वभावतः कर्मविप्रमुक्तः सन्नूर्ध्वगतिः, जीव इति गम्यते, यद्येवं तर्हि कथमधो गच्छति ?, अत्राहू - दृष्टान्तः 'अलावुना' तुम्बकेन, यथा तत्खभावत ऊर्ध्वगमनरूपमपि मृल्लेपाज्जलेऽधो गच्छति तदपगमादूर्ध्वमा जलान्ताद्, एवमात्माऽपि कर्मलेपादधो गच्छति तदपगमादूर्ध्वमा लोकान्तादिति । एरण्डफलादिभिश्च दृष्टान्त इति, अनेन दृष्टान्तबाहुल्यं दर्शयति, यथा चैरण्डफलमपि बन्धनपरिभ्रष्टमूर्द्ध गच्छति, आदिशब्दादन्यादिपरिग्रह इति गाथार्थः ॥ व्याख्यातं द्वितीयमूलद्वारगाथायामूर्ध्वगतिद्वारं, साम्प्रतं निर्मयद्वारव्याचिख्यासयाऽऽह् अमओ य होइ जीवो कारणविरहा जहेव आगासं । समयं च होअनिचं मिम्मयघडतंतुमाईयं ॥ ५४ ॥ भाष्यम् ॥ व्याख्या - अमयश्च भवति जीवः, न किम्मयोऽपीत्यर्थः कुत इत्याह- 'कारणविरहात्' अकारणत्वात्, यथैवाकाशम् - आकाशवदित्यर्थः, समयं च वस्तु भवत्यनित्यम्, एतदेव दर्शयति-मृन्मयघटतन्त्वादि, यथा For Private & Personal Use Only ४ षड्जीवनिकाध्य० जीवस्वरूपं ॥ १३३ ॥ jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy