________________
कत्तत्ति दारमहुणा सकम्मफलभोइणो जओ जीवा । वाणियकिसीवला इव कविलमयनिसेहणं एयं ॥ ५० ॥ भाष्यम् ॥
व्याख्या-कर्तेति द्वारमधुना-तदेतद्व्याख्यायते, खकर्मफलभोगिनो यतो जीवास्ततः कार इति, वणिकृषीविलादय इव, न ह्यमी अकृतमुपभुञ्जते इति प्रयोगार्थः, प्रयोगस्तु-कर्ताऽऽत्मा, खकर्मफलभोक्तृत्वात्, कर्ष
कादिवत् । ऐदम्पर्यमाह-कपिलमतनिषेधनमेतत् सांख्यमतनिराकरणमेतत्, तत्राकर्तृवादप्रसिद्धेरिति गाथार्थः॥ मूलद्वारगाथाद्वये व्याख्यातं कर्तद्वारम्, इदानीं देहव्यापित्वद्वारावसर इत्याह भाष्यकार:
वावित्ति दारमहुणा देहव्वावी मओऽग्गिउण्हं व । जीवो नउ सव्वगओ देहे लिंगोवलंभाओ ॥ ५१ ॥ भाष्यम् ॥ BI व्याख्या-व्यापीति द्वारमधुना-तदेतद्व्याख्यायते, 'देहव्यापी' शरीरमात्रं व्याप्तुं शीलमस्येति तथा 'म
इष्टः प्रवचनज्ञैः जीवो, नतु सर्वग इति योगः, तुशब्दस्यावधारणार्थत्वान्न चाण्वादिमात्रः, कुत इत्याह-'देहे लिङ्गोपलम्भात्' शरीर एव सुखादितल्लिगोपलब्धेः, अग्यौष्ण्यवत्, उष्णत्वं ह्यग्निलिङ्गं नान्यत्राग्नेः न च नानाविति [गाथा प्रयोगार्थः। प्रयोगस्तु-शरीरनियतदेश आत्मा, परिमितदेशे लिङ्गोपलब्धेः, अग्योष्ण्यवत् इति गाथार्थः ॥ व्याख्याता प्रथमा मूलद्वारगाथा, साम्प्रतं द्वितीया व्याख्यायते-तत्र प्रथमं गुणीत्याद्यद्वारं, तव्याचिख्यासयाऽऽह भाष्यकार:
अहुणा गुणित्ति दारं होइ गुणेहिं गुणित्ति विन्नेओ। ते भोगजोगउवओगमाइ रुवाइ व घडस्स ॥ ५२ ॥ भाष्यम् ॥
व्याख्या-अधुना गुणीति द्वारं-तदेतद्व्याख्यायते. भवति गुणैर्हि गुणी, न तद्व्यतिरेकेण 'इति' एवं वि. दश०२३
Jain Education
For Private & Personal Use Only
Imr.jainelibrary.org