________________
षड्जीवनिकाध्य. जीवस्वरूपं
दशवैका०४ व्याख्या-नित्य इति, सर्वत्र क्रियाभिसंबध्यते, अतीन्द्रियत्वात्-श्रोत्रादिभिरग्रहणादित्यर्थः, 'विज्ञेयों ज्ञा- हारि-वृत्तिः तव्यः। तथा च जातिस्मरणात्, पाठान्तरं वा 'क्षणिको न भवति जातिस्मरणादिति, एतदप्यदुष्टमेव, वि
धिप्रतिषेधाभ्यां साध्यार्थाभिधानात्, स्तनाभिलाषाच, तथा अमयोऽयमात्मा, नतु मृन्मय इव घटः, ततश्चा॥१३२॥
कारण इत्यर्थः । एतदपि नित्यत्वादिप्रसाधकमिति नियुक्तिगाथायामनुपन्यस्तमप्युक्तं सूक्ष्मधिया भाष्यकारेणेति गाथार्थः ॥ तृतीयां नियुक्तिगाथामाह___ सम्वन्नुवदिद्वत्ता सकम्मफलभोयणा अमुत्तत्ता । जीवस्स सिद्धमेवं निच्चत्तममुत्तमन्नत्तं ॥ २२७ ॥
व्याख्या-'सर्वज्ञोपदिष्टत्वादिति नित्यो जीव इति सर्वज्ञोक्तत्वात्, अवितथं च सर्वज्ञवचनं, तस्य रागादिरहितत्वादिति । तथा 'खकर्मफलभोजनादिति खोपात्तकर्मफलभोगादित्यर्थः, उपस्थानादेतन्न भिद्यत इति चेन्न, अभिप्रायापरिज्ञानात्, तत्र हि येन कृतं तस्मिन्नेव कर्तरि कर्मोपतिष्ठत इत्युक्तं तच्चैकस्मिन्नपि जन्मनि संभवति, इदं त्वन्यजन्मान्तरापेक्षयाऽपि गृह्यत इति न दोषः । तथा 'अमूर्तत्वादिति मूर्तिरहितत्वाद्, एतदपि श्रोत्रादिभिरग्रहणादित्यस्मान्न भिद्यत इति चेन्न, तत्र हि श्रोत्रादिभिर्न गृह्यते इत्येतदुक्तम्, इह तु तत्स्वरूपमेव नियम्यते इति, मूर्ताणूनामपि श्रोत्रादिभिरग्रहणादिति । द्वारत्रयमप्युपसंहरन्नाह-जीवस्य सिद्धमेवं नित्यत्वममूर्तत्वमन्यत्वमिति गाथार्थः ॥ मूलद्वारगाथाद्वये व्याख्यातमन्यत्वादिद्वारत्रयम्, इदानीं कर्तृद्वारावसरः, तथा चाह
॥१३२॥
Jain Education in
For Private & Personal Use Only
IM
ininelibrary.org