SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ दनात्, अनुभवाविशेषे सर्वेषामेव कस्मान्न भवतीति चेद्, उच्यते, कर्मप्रतिबन्धाद् दृढानुभवाभावाद, इह लोकेऽपि सर्वेषां सर्वत्रानुस्मरणादर्शनात्, न खलु इह लोके सर्वत्रानुस्मरणदर्शनं, तद्वदिहापि, कचिज्जातौ सर्वेषामस्त्विति चेन्न, नष्टचेतसां सर्वत्रानुस्मरणशून्येन व्यभिचारादिति प्रयोगार्थः, प्रयोगश्च बालकृतानुस्मरणवद्रष्टव्य इति । तथा स्तनाभिलाषादिति, तदहर्जातबालकस्यापि स्तनाभिलाषदर्शनात्, न चान्यकालाननुभूतस्तनपानस्यायमुपपद्यते, प्रयोगश्च-तदहर्जातबालकस्याऽऽद्यस्तनाभिलाषोऽभिलाषान्तरपूर्वकः, अभिलाषत्वादू, तदन्यस्तनाभिलाषवत्, तद्वदप्रथमत्वसाधनाद् विरुद्धो हेतुरिति चेन्न, प्रथमस्वानुभवेन बाधनात्, 'असति च बाधने विरुद्ध' इति न्यायाद्, अन्यथा हेतूच्छेदप्रसङ्गादित्यत्र बहु वक्तव्यं तत्तु नोच्यते, अक्षरगमनिकामात्रस्य प्रस्तुतत्वादिति । नित्यादिक्रियायोजना पूर्ववदिति नियुक्तिगाथार्थः ॥ एतामेव नियुक्तिगाथां लेशतो व्याचिख्यासुराह भाष्यकार: रोगस्सामयसन्ना बालकयं जं जुवाऽणुसंभरइ । जं कयमन्नंमि भवे तस्सेवन्नत्थुवत्थाणा ॥ ४८ ॥ भाष्यम् ।। व्याख्या-रोगस्यामय इति संज्ञा, बालकृतं किमपि वस्तु 'य' यस्माद्यवाऽनुस्मरति, तथा यत्कृतमन्यस्मिन् | भवे-कुशलाकुशलं कर्म तस्यैव-कर्मणोऽन्यत्र-भवान्तरे उपस्थानात्, सर्वत्र भावार्थयोजना कृतैवेति गाथार्थः॥ णिचो अणिदियत्ता खणिओ नवि होइ जाइसंभरणा । थणअभिलासा य तहा अमओ नउ मिम्मउन्च घडो ॥४९॥ भाष्यम् ॥ Jain Eduent and For Private & Personel Use Only alww.jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy