SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ दशवैका ० हारि-वृत्तिः ॥ १३१ ॥ Jain Education ** अमूर्तत्वाद्देहादन्य इति योजना सर्वत्र कार्या । तथा 'बालकृतानुस्मरणात् कृतशब्दोऽत्रानुभूतवचनः, ततश्च बालानुभूतानुस्मरणात्, तथा च बालेनानुभूतं वृद्धोऽप्यनुस्मरन् दृश्यते, न च अन्येनानुभूतमन्यः स्मरति अतिप्रसङ्गात् न चेदमनुस्मरणं भ्रान्तं, बाघाऽसिद्धेः न च हेतुफलभावनिबन्धनमेतत्, निरन्वयक्षणविनाशपक्षे तस्यैवासिद्धेः, हेतोरनन्तरक्षणेऽभावापत्तेः, असतञ्च सद्भावविरोधादिति प्रयोगार्थः, प्रयोगस्तु - अवस्थित आत्मा, पूर्वानुभूतार्थानुस्मरणात्, तदन्यैवंविधपुरुषवत् । उपस्थानादिति कर्मफलोपस्थानमत्र गृह्यते, यद्येनोपात्तं कर्म स एव तत्फलमुपभुङ्क्ते, अन्यश्च क्रियाकालोऽन्यश्च फलकालः, एकाधिकरणं चैतद्वयम्, अन्यथा स्वकृतवेदनासिद्धेः, अन्यकृतान्योपभोगस्य निरुपपत्तिकत्वात्, कृतनाशाकृताभ्यागमप्रसङ्गात्, संतानपक्षेऽपि कर्तृभोक्तृसंतानिनोर्नानात्वाविशेषात् शक्तिभेदात्, तस्यैव तथाभावाभ्युपगमे नित्यत्वापत्तेरिति प्रयोगार्थः, प्रयोगश्च-अवस्थित आत्मा, स्वकृतकर्मफलवेदनात्, कृषीवलादिवत् । श्रोत्रादिभिरग्रहणात्श्रोत्रादिभिरिन्द्रियैरपरिच्छित्तेः न च श्रोत्रादिभिरपरिच्छिद्यमानस्य असत्त्वम्, अवग्रहादीनां खसंवेदनसिद्धत्वात्, बौद्धैरप्यतीन्द्रियज्ञानाभ्युपगमात् ज्ञानस्य च गुणत्वात्, गुणस्य च गुणिनमन्तरेणाभावात्, प्राक्तनज्ञानस्यैव गुणित्वानुपपत्तेः, तस्यापि गुणत्वादिति प्रयोगार्थः, प्रयोगश्च नित्य आत्मा, गुणित्वे सत्यतीन्द्रियत्वात्, आकाशवत् । तथा जातिस्मरणादिति, जातेरतिक्रान्तायाः स्मरणात्, न चेदमनुस्मरणमन|नुभूतस्यान्यानुभूतस्य च भवति, अतिप्रसङ्गात् दृश्यते च कचिदिदं न चासौ प्रतारकः, तत्कथितार्थसंवा • For Private & Personal Use Only ४ षड्जीवनिकाध्य० जीवस्वरूपं ॥ १३१ ॥ jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy