________________
Jain Educatio
मानशब्दो दृष्टान्तवचनः, चौरादिघटादिदृष्टान्तात्, न हि उत्पत्त्यनन्तरविनाशी चौरश्रौर्यक्रियाभावेन बध्यते, स्थायी हि घटो जलादिना संयुज्यते इति व्यतिरेकार्थः, प्रयोगश्चात्र-न क्षणिक आत्मा, बन्धप्रत्ययत्वाचौरवत्, नित्यत्वामूर्तत्वदेहान्यत्वयोजना पूर्ववदिति गाथार्थः ॥ निर्युक्तिगाथायां बन्धस्य प्रत्ययाभावादिति व्याख्यातम्, अधुना 'विरुद्धस्य चार्थस्याप्रादुर्भावाविनाशाच्चेति व्याख्यायते
अविणासी खलु जीवो विगारणुवलंभओ जहागासं । उवलब्भंति विगारा कुंभाइविणासिदव्वाणं ॥ ४७ ॥ भाष्यम् ॥ व्याख्या - अविनाशी खलु जीवो, नित्य इत्यर्थः, कुत इत्याह 'विकारानुपलम्भात् घटादिविनाशे कपालादिवद्विशेषादर्शनाद्, यथाऽऽकाशम् - आकाशवदित्यर्थः, एतदेव स्पष्टयति- 'उपलभ्यन्ते विकारा' दृश्यन्ते कपालादयः कुम्भादिविनाशिद्रव्याणां न चैवमत्रेत्यभिप्रायः, नित्यत्वामूर्तत्वदेहान्यत्वयोजना पूर्ववत्, इति गाथार्थः । प्रकृत संबद्धामेव निर्युक्तिगाथामाह -
निरामयामयभावा बालकयाणुसरणादुवत्थाणा । सुत्ताईहिं अगहणा जाईसरणा थणभिलासा ।। २२६ ॥
व्याख्या- 'निरामयामयभावात्' निरामयस्य-नीरोगस्याऽऽमयभावाद् - रोगोत्पत्तेः उपलक्षणं चैतत् सामयनिरामयभावस्य, तथा चैवं वक्तार उपलभ्यन्ते - पूर्व निरामयोऽहमासं सम्प्रति सामयो जातः सामयो वा निरामय इति, न चैतन्निरन्वयलक्षणविनाशिन्यात्मन्युपपद्यते, उत्पत्त्यनन्तराभावादिति प्रयोगार्थः, प्रयोगस्तु - अवस्थित आत्मा, अनेकावस्थानुभवनात्, बालकुमाराद्यवस्थानुभवितृदेवदत्तवत्, नित्यत्वादमूर्तः,
For Private & Personal Use Only
ww.jainelibrary.org