SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ ४ षड्जीवनिकाध्य जीवस्वरूप दशवैका०कान्तदेहभिन्नस्य चातिपाताद्यसंभवादित्यत्र बहु वक्तव्यं तत्तु नोच्यते, अक्षरगमनिकामात्रत्वात्प्रारभ्भस्येति हारि-वृत्तिः गाथार्थः॥ एवमन्यत्वादिद्वारत्रयं व्याख्यायाधिकृतनियुक्तिगाथां व्याचिख्यासुराह कारणअविभागाओ कारणअविणासओ य जीवस्स । निञ्चत्तं विन्नेयं आगासपडाणुमाणाओ ॥ ४५ ॥ भाष्यम् ॥ ॥१३०॥ व्याख्या-कारणाविभागात् पटादेस्तन्वादेरिव कारणविभागाभावादित्यर्थः, 'कारणाविनाशतश्च' कारणाविनाशश्च कारणानामेवाभावात्, किमित्याह-'जीवस्य आत्मनो नित्यत्वं विज्ञेयम्, कुत इत्याह-'आकाशपटानुमानात् अत्रानुमानशब्दो दृष्टान्तवचनः, आकाशपटदृष्टान्तात् । ततश्चैवं प्रयोगः-नित्य आत्मा, स्वकारणविभागाभावादु, आकाशवत्, तथा कारणविनाशाभावाद्, आकाशवदेव, यस्त्वनित्यस्तस्य कारणविभागभावः कारणविनाशभावो वा यथा पटस्येति व्यतिरेकः, पटाद्धि तन्तवो विभज्यन्ते विनश्यन्ति चेति नित्यत्वसिद्धिः। नित्यत्वादमूर्तः, अमूर्तत्वाद्देहादन्य इति गाथार्थः ॥ नियुक्तिगाथायां कारणविभागाभावात्कारणविनाशाभावाचेति द्वारद्वयं व्याख्याय साम्प्रतं बन्धस्य प्रत्ययाभावादिति व्याचिख्यासुराह| हेउप्पभवो बंधो जम्माणतरहयस्स नो जुत्तो । तज्जोगविरहओ खलु चोराइघडाणुमाणाओ ।। ४६ ॥ भाष्यम् ॥ | व्याख्या-हेतुप्रभवो' हेतुजन्मा 'बन्धों' ज्ञानावरणादिपुद्गलयोगलक्षणः, 'जन्मानन्तरहतस्य उत्पत्त्यनन्तरविनष्टस्य 'न युक्तो' न घटमानः 'तद्योगविरहत' इति तैः-बन्धहेतुभिर्मिथ्यादर्शनाविरतिप्रमादकषाययोगलक्षणैर्यो योगः-संबन्धस्तद्विरहतः-तदभावादेव, खलुशब्दस्यावधारणार्थत्वात्,'चौरादिघटानुमाना'दित्यनु ॥१२०॥ JainEducation For Private Personal use only Jaw.jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy