SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ Jain Educatio संसाराओ आलोयणा तह पञ्चभिन्नभावाओ । खणभंगविघायत्थं भणिअं तेलोक्कसीहिं ॥ ४३ ॥ भाष्यम् ॥ व्याख्या- 'संसारा' दिति संसरणं संसारस्तस्मात् स एव नारकः स एव तिर्यगादिरिति नित्य:, 'आलोचनादिति आलोचनं-करोम्यहं कृतवानहं करिष्येऽहमित्यादिरूपं त्रिकालविषयमिति नित्य:, तथा 'प्रत्यभिज्ञाभावात् स एष इति प्रत्यभिज्ञाप्रत्यय आविद्वदङ्गनादिसिद्धः तदभेदग्राहीति नित्य इति उक्ताभिधानफलमाह - 'क्षणभङ्गविघातार्थे' निरन्वयक्षणिकवस्तुवादविघातार्थं भणितं 'त्रैलोक्यदर्शिभिः' तीर्थकरैः एतदनन्तरोदितं न पुनरेष एव परमार्थ इति गाथार्थः । एतदेव दर्शयति लोगे वे समए निचो जीवो विभासओ अम्हं । इहरा संसाराई सव्वंपि न जुज्जए तस्स ॥ ४४ ॥ भाष्यम् ॥ व्याख्या - लोके - 'नैनं छिन्दन्ति शस्त्राणी त्यादिवचनप्रामाण्यात्, वेदे 'स एष अक्षयोऽज' इत्यादिश्रुतिप्रामाण्यात् समये 'न प्रकृतिर्न विकृतिः पुरुष' इति वचनप्रामाण्यात्, किमित्याह - नित्यो जीवः - अप्रच्युता नुत्पन्नस्थिरैकस्वभावः, एकान्तनित्य एव न चैतन्याय्यम्, एकस्वभावतया संसरणादिव्यवहारोच्छेदप्रसङ्गादिति वक्ष्यति, अत आह— 'विभाषयाऽस्माकं' विकल्पेन - भजनया स्यान्नित्य इत्यादिरूपया द्रव्यार्थादेशा| न्नित्यः पर्यायार्थादेशादनित्य इत्यर्थः, 'इतरथा' यद्येवं नाभ्युपगम्यते ततः 'संसारादि' संसारालोचनादि स सर्वमेव न युज्यते 'तस्य' आत्मनः, स्वभावान्तरानापत्त्या एकस्वभावतया वार्तमानिकभावातिरेकेण भावान्त रानापत्तेः, एवममूर्तत्वान्यत्वयोरपि विभाषा वेदितव्या, अन्यथा व्यवहाराभावप्रसङ्गात्, एकान्तामूर्तस्यै For Private & Personal Use Only ww.jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy