________________
दशवैका० छउमत्थाणुवलंभा तहेव सव्वन्नुवयणओ चेव । लोयाइपसिद्धीओ जीवोऽमुत्तो त्ति नायव्वो ॥४१॥ भाष्यम् ॥
षड्जीवहारि-वृत्तिः व्याख्या-'छद्मस्थानुपलम्भाद्' अवधिज्ञानिप्रभृतिभिरपि साक्षादगृह्यमाणत्वात्, तथैव 'सर्वज्ञवचनाचैव निकाध्य
सत्यवक्तवीतरागवचनादित्यर्थः, 'लोकादिप्रसिद्धेः' लोकादावमूर्तत्वेन प्रसिद्धत्वात्, आदिशब्दावेदसमयप- जीवस्वरूपं ॥ १२९॥
रिग्रहः, अमूर्ती जीव इति ज्ञातव्यः, सर्वत्रैवेयं प्रतिज्ञेति गाथार्थः॥ उक्तममूर्तद्वारम् , अधुना नित्यत्वद्वारप्रस्तावः, तथा चाह भाष्यकार:
णिचोत्ति दारमहुणा णिच्चो अविणासि सासओ जीवो । भावत्ते सइ जम्माभावाउ नहं व विन्नेओ ॥ ४२ ॥ भाष्यम् ॥
व्याख्या-'नित्य' इति नित्यद्वारमधुनाऽवसरप्राप्तं, तद्व्याचिख्यासयाऽऽह-नित्यो जीव इति, एतावत्युच्य8 माने परैरपि संतानस्य नित्यत्वाभ्युपगमात्सिद्धसाध्यतेति तन्निराकरणायाह-अविनाशी-क्षणापेक्षयापि न 8 |निरन्वयनाशधर्मा, एवमपि परिमितकालावस्थायी कैश्चिदिष्यते-कप्पट्ठाई पुढवी भिक्खू वेति वचनात्तदपोहायाह-'शाश्वत' इति सर्वकालावस्थायी, कुत इत्याह-'भावत्वे सति' वस्तुत्वे सतीत्यर्थः, 'जन्माभावात् अनुत्पत्तेः 'नभोवद' आकाशवद्विज्ञेयः, भावत्वे सतीति विशेषणं खरविषाणादिव्यवच्छेदार्थमिति गाथार्थः ॥ हेत्वन्तराण्याह
१ कल्पस्थायिनी पृथ्वी भिक्षवो वा. २ न च वाच्यं 'मनुर्नभोऽङ्गिरो वती' (सि. १-१-२४)त्यनेन नभखदित्येव स्यादिति, लोकप्रसिद्धच्छान्दसशब्दसाधनमूलत्वात्तत्प्रयासस्य, अत एव 'नभोऽशिरोमनुषां वेत्युपसंख्यान'मिति वैदिक्यामाख्यातवान् दीक्षितः, कैयटो भाष्यप्रदीपेऽपि 'उपसंख्यानान्येतानि छन्दोविषयाणीयाहु रिति ॥१२९॥ जगाद, नभोऽस्याश्रयत्वेनेति नभखच्छन्दं व्युत्पादयामासुश्च व्याख्याकारा अतः वायुशब्दपर्यायव्याख्याने।
Jain Education
For Private & Personel Use Only
jainelibrary.org