________________
व्याख्या-खलुशब्दः विशेषणार्थत्वात्कथञ्चिद्देहेन्द्रियातिरिक्त आत्मेति प्रतिज्ञार्थः, 'तदपलब्धार्थाना मिति संभवतः परामर्शत्वात् इन्द्रियोपलब्धार्थानां 'तद्विगमेऽपि' इन्द्रियविगमेऽपि स्मरणादिति हेत्वर्थः, स्मरन्ति चान्धवधिरादयः पूर्वानुभूतं रूपादीति, गेहगवाक्षः पुरुषवदिति दृष्टान्तः। प्रयोगस्तु-कथञ्चिद्देहेन्द्रियातिरिक्त आत्मा, तद्विगमेऽपि तदुपलब्धार्थानुस्मरणात्, पञ्चवातायनोपलब्धार्थानुस्मर्तृदेवदत्तवदिति गाथार्थः ॥ इन्द्रियोपलब्धिमत्त्वाशङ्कापोहायाह
न उ इंदियाई उवलद्धिमति विगएसु विसयसंभरणा । जह गेहगवखेहिं जो अणुसरिया स उवलद्धा ॥ ३९ ॥ भाष्यम् । व्याख्या-न पुनरिन्द्रियाण्येवोपलब्धिमन्ति-द्रष्ट्रणि, कुत इत्याह-विगतेष्विन्द्रियेषु विषयसंस्मरणात्-तदृहीतरूपाद्यनुस्मृतेरन्धवधिरादीनामिति, निदर्शनमाह-यथा गेहगवाक्षैः करणभूतैः दृष्टानाननुस्मरन् योऽनुस्मता स उपलब्धा, न तु गवाक्षाः, एवमत्रापीति गाथार्थः ॥ उक्तमेकेन प्रकारेणान्यत्वद्वारम्, अधुना अमूर्तद्वारावसर इत्याह भाष्यकार:
संपयममुत्तदारं अइंदियत्ता अछेयभेयत्ता । रूवाइविरहओ वा अणाइपरिणामभावाओ ॥ ४०॥ भाष्यम् ॥ व्याख्या-साम्प्रतममूर्तद्वारं, तद्व्याख्यायते, अमूर्ती जीवः, 'अतीन्द्रियत्वात् द्रव्येन्द्रियाग्राह्यत्वात्, अच्छेद्याभेद्यत्वात्-खड्गशूलादिना, रूपादिविरहतश्च-अरूपत्वादित्यर्थः । तथा 'अनादिपरिणामभावादिति खभावतोऽनाद्यमूर्तपरिणामत्वादिति गाथार्थः॥
in Educat
i onal
For Private & Personel Use Only
wिw.jainelibrary.org