________________
दशवैका ० हारि-वृत्तिः
॥ १२८ ॥
Jain Education
रणविभागाभावात् न खलु जीवस्य पटादेरिव तन्त्वादिकारणविभागोऽस्ति कारणाभावादेव । एवं कारणविनाशाभावेऽपि योज्यं, तथा बन्धस्य-ज्ञानावरणादिपुद्गलयोगलक्षणस्य प्रत्ययाभावात् - हेतुत्वानुपपत्तेः, बन्धस्येति बध्यमानव्यतिरिक्तबन्धज्ञापनार्थमसमासः, व्यतिरेकी चायमन्वयव्यतिरेकावर्थसाधकाविति दर्शनार्थमिति, तथा विरुद्धस्य चार्थस्य पटादिनाशे भस्मादेरिव 'अप्रादुर्भावादविनाशाच्च' अप्रादुर्भावेऽनुत्पत्तौ सत्यामविनाशाच्च हेतोः जीवस्य नित्यत्वं, नित्यत्वादमूर्तत्वम्, अमूर्तत्वाच्च देहादन्यत्वमिति प्रतिपत्त्यानुगुण्यतो व्यत्ययेन साध्यनिर्देशः । वक्ष्यति च नियुक्तिकार:- 'जीवस्स सिद्धमेवं, निच्चत्तममुत्तमन्नन्तं' इति गाथासमासार्थः । व्यासार्थस्तु भाष्यादवसेयः, तत्राव्युत्पन्नविनेयासंमोहनिमित्तं यथोपन्यासं तावद्वाराणि व्याख्याय पश्चान्निर्युक्तिकाराभिप्रायेण मीलयिष्यतीत्यत आह
अन्नत्ति दारमहुणा अन्नो देहा गिहाउ पुरिसो व्व । तज्जीवतस्सरीरियमयघायत्थं इमं भणियं ॥ ३७ ॥ भाष्यम् || व्याख्या- अन्यो देहादिति द्वारमधुना, तदेतद्व्याख्यायते - अन्यो देहात् जीव इति गम्यते, गृहादिगतपुरुषवदिति दृष्टान्तः, तद्भावेऽपि तत्रानियमतो भावादिति हेतुरभ्यूह्यः, न चासिद्धोऽयं, मृतदेहेऽदर्शनात्, प्रयोगफलमाह-तज्जीवतच्छरीरवादिमतविघातार्थम् 'इदं' प्रयोगरूपं भणितमिति गाथार्थः ॥ प्रयोगान्तरमाह
देहिंदियाइरित्तो आया खलु तदुवलद्धअत्थाणं । तव्विगमेऽवि सरणओ गेहगवक्खेहिं पुरिसो व्व ॥ ३८ ॥ भाष्यम् ॥
१ निर्युतिमूलद्वारापेक्षया संगृहीतार्थवाचका गाथा नियुक्तिः, तस्याश्च यद्विवरणं तद्भाष्यं कर्त्ता त्वनयोरेक एवोभयोरपीति वि० प.
For Private & Personal Use Only
४ षड्जीवनिकाध्य० जीवस्वरूपं
॥ १२८ ॥
www.jainelibrary.org