SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ 'मांसचक्षुषा' छद्मस्थेन, पश्यन्ति सिद्धाः सर्वज्ञाः, अञ्जनसिद्धादिव्यवच्छेदार्थ सर्वज्ञग्रहणं, ततश्च ऋषभादय इत्यर्थः, ज्ञानसिद्धाश्च साधवो-भवस्थकेवलिन इति गाथार्थः ॥ साम्प्रतमागमादस्तित्वमाह अत्तवयणं तु सत्थं दिट्ठा य तओ अइंदियाणपि । सिद्धी गहणाईणं तहेव जीवस्स विन्नेया ॥ ३५ ॥ भाष्यम् । __ व्याख्या-आप्तवचनं तु शास्त्रम् , आप्तो-रागादिरहितः, तुशब्दोऽवधारणे, आप्तवचनमेव, अनेनापौरुषेयव्यवच्छेदमाह, तस्यासंभवादिति । 'दृष्टा च तत' इति उपलब्धा च ततः-आप्तवचनशास्त्रात् 'अतीन्द्रियाणामपि' इन्द्रियगोचराप्तिक्रान्तानामपि, 'सिद्धिः ग्रहणादीना' मिति उपलब्धिश्चन्द्रोपरागादीनामित्यर्थः, तथैव जीवस्य विज्ञेयेति, अतीन्द्रियस्याप्याप्तवचनप्रामाण्यादिति गाथार्थः॥ मूलद्वारगाथायां व्याख्यातमस्तित्वद्वारम्, अधुनाऽन्यत्वादिद्वारत्रयव्याचिख्यासुराह। अण्णत्तममुत्तत्तं निश्चत्तं चेव भण्णए समयं । कारणअविभागाईहेऊहिं इमाहिं गाहाहिं ॥ ३६ ॥ भाष्यम् ।। _ व्याख्या-अन्यत्वं देहाद अमूर्तत्वं खरूपेण नित्यत्वं चैव-परिणामिनित्यत्वं भण्यते 'समकम्' एकैकेन हेतुना त्रितयमपि युगपदिति-एककालमित्यर्थः, 'कारणाविभागादिभिः' वक्ष्यमाणलक्षणैर्हेतुभिः 'इमाभिः' तिमभिर्नियुक्तिगाथाभिरेवेति गाथार्थः ॥ ____ कारणविभागकारणविणासबंधस्स पञ्चथाभावा । विरुद्धस्स य अत्थस्सापाउब्भावाविणासा य ॥ २२५ ॥ व्याख्या-'कारणविभागकारणविनाशबन्धस्य प्रत्ययाभावादिति अत्राभावशब्दः प्रत्येकमभिसंबध्यते, का दिद्वारत्रयव्याचिख्यासुरामाभागाईहेऊहिं इमाहिं गाहाहिं ॥ ३१ भण्यते 'समकम्', Jan Education For Private Personel Use Only Tibrjainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy