________________
दश. ३
Jain Education Inte
र्त्तते, कर्मप्रवादपूर्व नाम-यत्र ज्ञानावरणीयादिकर्मणो निदानादिप्रवदनमिति तस्मात्, किम् ? - पिण्डस्यैषणा त्रिविधा - गवेषणाग्रहणैषणाग्रासैषणाभेदभिन्ना निर्व्यूढा, सा पुनस्तत्रामुना सम्बन्धेन पतति-आधाकर्मोपभोक्ता ज्ञानावरणीयादिकर्मप्रकृतीर्बनाति, उक्तं च- "आहाकम्मं णं भुंजमाणे समणे अट्ठकम्पपगडीओ बंधइ" इत्यादि, शुद्धपिण्डोपभोक्ता वा शुभा बनातीत्यलं प्रसङ्गेन, प्रकृतं प्रस्तुमः, सत्यप्रवादपूर्वान्निर्व्यूढा भवति वाक्यशुद्धिस्तु, तत्र सत्यप्रवादं नाम - यत्र जनपदसत्यादेः प्रवदनमिति, वाक्यशुद्धिर्नाम सप्तममध्ययनम्, 'अवशेषाणि' प्रथमद्वितीयादीनि निर्व्यूढानि नवमस्यैव प्रत्याख्यानपूर्वस्य तृतीयवस्तुन इति । द्विती योऽपि चादेशः 'आदेशो' विध्यन्तरं 'गणिपिटकाद्' आचार्य सर्वखाद् 'द्वादशाङ्गाद्' आचारादिलक्षणात् 'इदं' दशकालिकं, किलेति पूर्ववत्, निर्व्यूढमिति च किमर्थम् ? - 'मनकस्य' उक्तखरूपस्य अनुग्रहार्थमिति गाथा - त्र्यार्थः ॥ एवं यत इति व्याख्यातम्, अधुना यावन्तीत्येतत्प्रतिपाद्यते—
दुमपुफियाइया खलु दस अज्झयणा सभिक्खुयं जाव । अहिगारेवि य एतो वोच्छं पत्तेयमेक्केके ॥ १९ ॥ दारं ॥ व्याख्या - तत्र द्रुमपुष्पिकेति प्रथमाध्ययननाम, तदादीनि दशाध्ययनानि 'सभिक्खुयं जाव'त्ति सभिक्ष्वध्ययनं यावत्, खशब्दो विशेषणार्थः, किं विशिनष्टि ? - तदन्ये द्वे चूडे, यावन्तीति व्याख्यातं । यथा चेत्येतत्
१ आधाकर्म भुञ्जानः श्रमणः अष्टकर्मप्रकृतीर्थभाति.
For Private & Personal Use Only
ainelibrary.org