SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ दशवैकाo हारि-वृत्तिः ॥ १२ ॥ Jain Education I मण पडुच्च सेज्जंभवेण निज्जूहिया दसऽज्झयणा । वेयालियाइ ठविया तम्हा दसकालियं णामं ॥ १५ ॥ द्वारं ॥ व्याख्या -'मनकं प्रतीत्य' मनकाख्यमपत्यमाश्रित्य 'शय्यम्भवेन' आचार्येण 'निर्यूढानि' पूर्वगतादुद्धृत्य विरचितानि 'दशाध्ययनानि' द्रुमपुष्पिकादीनि 'वेयालियाइ ठविय'त्ति विगतः कालो विकालः विकलनं वा विकाल इति, विकालोऽसकलः खण्डश्चेत्यनर्थान्तरम्, तस्मिन् विकाले - अपराण्हे 'स्थापितानि' न्यस्तानि द्रुमपुष्पिकादीन्यध्ययनानि यतः तस्माद्दशकालिकं नाम, व्युत्पत्तिः पूर्ववत्, दशवैकालिकं वा, विकालेन निर्वृत्तम्, संकाशादिपाठाच्चातुरर्थिकष्ठक् ( पा० ४ - २ - ८० ) तद्वितेष्वचामादे (पा०७-२-११७) रित्यादिवृद्वेवैकालिकं, दशाध्ययननिर्माणं च तेद्वैकालिकं च दशवैकालिकमिति गाथार्थः ॥ एवं येन वा यद्वा प्रतीत्येति व्याख्यातम्, इदानीं यतो निर्व्यूढानीत्येतद् व्याचिख्यासुराह— आयप्पवायपुव्वा निज्जूढा होइ धम्मपन्नत्ती । कम्मप्पवायपुव्वा पिंडस्स उ एसणा तिविहा ॥ १६ ॥ सञ्चप्पवायपुव्वा निज्जूढा होइ वक्कसुद्धी उ । अवसेसा निज्जूढा नवमस्स उ तइयवत्थूओ ॥ ॥ १७ ॥ बीओऽवि अ आएसो गणिपिङगाओ दुवालसंगाओ । एअं किर णिज्जूढं मणगस्स अणुग्गहट्ठाए ॥ १८ ॥ व्याख्या - इहात्मप्रवादपूर्व - यत्रात्मनः संसारिमुक्तायनेकभेदभिन्नस्य प्रवदनमिति, तस्मान्निर्व्यूढा भवति धर्मप्रज्ञप्तिः, षड्जीवनिका इत्यर्थः, तथा कर्मप्रवादपूर्वात्, किम् ? - पिण्डस्य तु एषणा त्रिविधा, निर्व्यूढेति व १ कुमुदादेराकृतिगणत्वात् वुञ्छणित्यादिना ठक्, संकाशादीति तु लेखकभ्रममूलः पाठस्तत्र ण्यभावात्. २ विकाले पठ्यते इति वैकालिकमिति चूर्णिः. For Private & Personal Use Only १ द्रुमपुष्पिकाध्य यत उद्धारः ॥ १२ ॥ jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy