________________
दशवेका० हारि-वृत्तिः ॥ १२६ ॥
Jain Education In
'शब्दतः सिद्धिः' वाचकाद्वाच्यप्रतीतेः, एतदेव प्रश्नद्वारेणाह - 'कस्मात् कुत एतदेवमिति ?, आह- 'शुद्धपदत्वात्' केवलपदत्वाज्जीवशब्दस्य, घटखरशृङ्गानुमानाद्, अनुमानशब्दो दृष्टान्तवचनः घटखरशृङ्गदृष्टान्तादिति प्रयोगार्थः, प्रयोगस्तु - मुख्ये नार्थेनार्थवान् जीवशब्दः, शुद्धपदत्वाद्, घटशब्दवत्, यस्तु मुख्येनार्थेनार्थवान् न | भवति स शुद्धपदमपि न भवति, यथा खरशृङ्गशब्द इति गाथार्थः ॥ पराभिप्रायमाशङ्क्य परिहरन्नाह
चोयग - सुद्धपयत्ता सिद्धी जइ एवं सुण्णसिद्धि अम्हं पि । तं न भवइ संतेणं जं सुन्न सुन्नगेहूं व ॥ २७ ॥ भाष्यम् ॥ व्याख्या-उक्तवच्छुद्धपदत्वात्सिद्धिर्यदि जीवस्य एवं तर्हि शून्यसिद्धिरस्माकमपि, शून्यनष्टशब्दस्यापि शुद्धपदत्वादित्यभिप्रायः, अत्रोत्तरमाह तन्न भवति यदुक्तं परेण, कुत इत्याह- 'सता' विद्यमानेन पदार्थेन 'यद्' यस्माच्छून्यं शून्यमुच्यते, किंवदित्याह - शून्यगृहमिव, तथाहि देवदत्तेन रहितं शून्यगृहमुच्यते, निवृत्तो घटो नष्ट इति, नत्वनयोर्जीवशब्दस्य जीववदच (वि) शिष्टं वाच्यमस्तीति गाथार्थः ॥ प्रकारान्तरेणास्ति| त्वपक्षमेव समर्थयन्नाह
मिच्छा भवेड सव्वत्था, जे केई पारलोइया । कत्ता चेवोपभोत्ता य, जइ जीवो न विज्जइ ॥ २८ ॥ भाष्यम् ॥
व्याख्या- 'मिथ्या भवेयुः' अन्नृताः स्युः सर्वेऽथ ये केचन पारलौकिका - दानादयः, यदि किमित्याह - कर्ता चैव कर्मणः उपभोक्ता च तत्फलस्य, यदि जीवो न विद्यते परलोकयायीति गाथार्थः ॥ एतदेवाव्युत्पन्नशि - ष्यानुग्रहार्थं स्पष्टतरमाह
For Private & Personal Use Only
४ षड्जीवनिकाध्य० जीवसिद्धिः
॥ १२६ ॥
jainelibrary.org