________________
Jain Education
व्याख्या - यश्चिन्तयति 'शरीरे' अत्र लोकप्रतीते नास्त्यहं 'स एव' चिन्तयिता भवति जीव इति । कथमे तदेवमित्याह-न यस्माज्जीवेऽसति मृतदेहादौ संशयोत्पादकः 'अन्यः' प्राणादिः, चैतन्यरूपत्वात्संशयस्येति गाथार्थः ॥ एतदेव भावयति
जीवस एस धम्मो जा ईहा अत्थि नत्थि वा जीवो। खाणुमणुस्साणुगया जह ईहा देवदत्तस्स ॥ २४ ॥ भाष्यम् ॥ व्याख्या- जीवस्यैष खभावः - एष धर्मः या 'ईहा' सदर्थपर्यालोचनात्मिका, किंविशिष्ठेत्याह-अस्ति नास्ति वा जीव इति, लोकप्रसिद्धं निदर्शनमाह - 'स्थाणुमनुष्यानुगता' किमयं स्थाणुः किं वा पुरुष इत्येवंरूपा येहा देवदत्तस्य जीवतो धर्म इति गाथार्थः ॥ प्रकारान्तरेणैतदेवाह
सिद्धं जीवस्स अत्थित्तं, सहादेवाणुमीयए । नासओ भुवि भावस्स, सद्दो हवइ केवलो || २५ || भाष्यम् ||
व्याख्या- 'सिद्ध' प्रतिष्ठितं 'जीवस्य' उपयोगलक्षणस्यास्तित्वं कुत इत्याह- 'शब्दादेव' जीव इत्यस्मादनुमीयते, कथमेतदेवमित्याह - 'नासत' इति न असतः - अविद्यमानस्य 'भुवि' पृथिव्यां 'भावस्य' पदार्थस्य शब्दो भवति वाचक इति, खरविषाणादिशब्दैर्व्यभिचारमाशङ्कयाह - 'केवल:' शुद्धः अन्यपदासंसृष्टः, खरादिपदसंसृष्टाश्च विषाणादिशब्दा इति गाथार्थः । एतद्विवरणायैवाह भाष्यकारः -
अत्थित्ति निव्विगप्पो जीवो नियमाउ सद्दओ सिद्धी । कम्हा ? सुद्धपयत्ता घडखरसिंगाणुमाणाओ ॥ २६ ॥ भाष्यम् ॥ व्याख्या - अस्तीति निर्विकल्पो जीव', 'निर्विकल्प' इति निःसंदिग्धः, 'नियमात्' नियमेनैव, प्रतिपत्रपेक्षया
For Private & Personal Use Only
www.jainelibrary.org