________________
दशवैका ० हारि-वृत्तिः
।। १२५ ।।
Y
Jain Education Interne
जहा चित्ताईया जीवस्स गुणा हवंति पञ्चक्खा | गुणपञ्चक्खत्तणओ घडुव्व जीवो अओ अस्थि ॥ २१ ॥ भाष्यम् ॥
व्याख्या - यस्मात् 'चित्तादयः' अनन्तरोक्ताः जीवस्य गुणाः, नाजीवस्य, शरीरादिगुणविधर्मत्वात्, एते च भवन्ति प्रत्यक्षाः, स्वसंवेद्यत्वात्, यतश्चैवं गुणप्रत्यक्षत्वाद्धेतोर्घदवज्जीवः अतोऽस्तीति प्रयोगार्थः, प्रयोगस्तु -सन्नात्मा, गुणप्रत्यक्षत्वात्, घटवत्, नायं घटवदात्मनोऽचेतनत्वापादनेन विरुद्ध:, 'विरुद्धोऽसति बाधने इतिवचनात्, एतचैतन्यं प्रत्यक्षेणैव बाधनमिति गाथार्थः ॥ व्याख्यातं मूलद्वारगाथाद्वये प्रतिद्वारगाथाद्वयेन लक्षणद्वारम्, इदानीमस्तित्वद्वारावसरः, तथा चाह भाष्यकारः
अत्थित्ति दारमहुणा जीवस्सइ अत्थि विज्जए नियमा । लोआययमयघायत्थमुच्चए तत्थिमो हेऊ ॥ २२ ॥ भाष्यम् ॥ व्याख्या-अस्तीति द्वारमधुना - साम्प्रतमवसरप्राप्तं, तत्रैतदुच्यते - जीवः सन् पृथिव्यादिविकारदेहमात्ररूपः सन्निति सिद्धसाध्यता न तु ततोऽन्योऽस्तीत्याशङ्कापनोदायाह- अस्त्यन्यश्चैतन्यरूपः, तदपि मातृचैतन्योपादानं भविष्यति परलोकयायी तु न विद्यते इति मोहापोहायाह - विद्यते 'नियमात्' नियमेन, तथा चाह| 'लोकायत मतघातार्थं' नास्तिकाभिप्रायनिराकरणार्थमुच्यत एतत् तस्य चानन्तरोदित एवाभिप्राय इति सफलानि विशेषणानि, 'तत्र' लोकायतमतविघाते कर्तव्ये 'अयं' वक्ष्यमाणलक्षणो 'हेतुः' अन्यथानुपपत्तिरूपो युक्तिमार्ग इति गाथार्थः ॥
जो चिंतेइ सरीरे नत्थि अहं स एव होइ जीवो त्ति । न हु जीवंमि असंते संसयउपायओ अन्नो ॥ २३ ॥ भाष्यम् ॥
For Private & Personal Use Only
४ षड्जीवनिकाध्य०
जीवसिद्धिः
।। १२५ ।।
jainelibrary.org