SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ ** ** * णवेदननिर्जरणसद्भावाद, आहारवदिति गाथार्थः॥ उक्तानि बन्धादिद्वाराणि, व्याख्याता च प्रथमा प्रतिद्वारगाथा, साम्प्रतं द्वितीयामधिकृत्य चित्तादिस्वरूपव्याचिख्यासयाऽऽह चित्तं तिकालविसयं चेयण पञ्चक्ख सन्नमणुसरणं । विण्णाणऽणेगभेयं कालमसंखेयर धरणा ॥ १९ ॥ भाष्यम ॥ __ व्याख्या-चित्तं त्रिकालविषयम्-ओघतोऽतीतानागतवर्तमानग्राहि, चेतनं चेतना-सा प्रत्यक्षवर्तमानार्थग्राहिणी, संज्ञानं संज्ञा-सा अनुस्मरणमिदं तदिति ज्ञानं, विविधं ज्ञानं विज्ञानम् अनेकभेदम्-अनेकप्रकारम् , अनेकधर्मिणि वस्तुनि तथा तथाऽध्यवसाय इत्यर्थः, 'कालमसंख्येयेतरम्' असंख्येयं संख्येयं वा, धारणाअविच्युतिस्मृतिवासनारूपा, तत्र वासनारूपा असंख्येयवर्षायुषामसंख्येयं संख्येयवर्षायुषां च संख्येयमिति गाथार्थः ॥ &ा अत्थस्स ऊह बुद्धी ईहा चेद्वत्थअवगमो उ मई । संभावणत्थतका गुणपञ्चक्खा घडोव्वऽथि ॥ २०॥ भाष्यम् ॥ व्याख्या-अर्थस्योहा बुद्धिः संज्ञिनः परनिरपेक्षोऽर्थपरिच्छेद इति भावः, ईहा-चेष्टा किमयं स्थाणुः किंवा पुरुष? इति सदर्थपर्यालोचनरूपा, 'अर्थावगमस्तु' अर्थपरिच्छेदस्तु शिरःकण्डूयनादिधर्मोपपत्तेः पुरुष एवायमित्येवंरूपा मतिः, 'संभावणत्थतकत्ति प्राकृतशैल्या अर्थसंभावना-एवमेव चायमर्थ उपपद्यत इत्यादिरूपा तर्का। इत्थं द्वाराणि व्याख्याय सर्व एते चित्तादयो गुणा वर्तन्त इति जीवाख्यगुणिप्रतिपादकेन प्रयोगार्थेनोपसंहरन्नाह-गुणप्रत्यक्षत्वाद्धेतोर्घटवदस्ति जीव इति गम्यते, एष गाथार्थः । एतदेव स्पष्टयति * * * * JainEducation a l *S For Private & Personal Use Only N aw.jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy