________________
दशवैका ० हारि-वृत्तिः
॥ १२४ ॥
Jain Education
- कृष्णादिद्रव्यसाचिव्येन जम्बूखादकादिदृष्टान्तसिद्धतथाविधपरिणामधर्मत्वात्, क्षीरवदिति प्रयोगार्थः, प्रयोगस्तु-सन्नात्मा, परिणामित्वात्, क्षीरवदिति । गतं लेश्याद्वारम्, प्राणापानद्वारमाह-उच्छ्रासादिति, अ| चेतनधर्मविलक्षणप्राणापानसद्भावान्नाभावो जीवः, किंतु भाव एवेति, श्रमसद्भावेन परिस्पन्दोपेत पुरुषवदिति प्रयोगार्थः, प्रयोगस्तु पुनरत्र व्यतिरेकी द्रष्टव्यः, सात्मकं जीवच्छरीरं, प्राणादिमत्त्वाद्, यत्तु सात्मकं न भ वति तत्प्राणादिमदपि न भवति, यथाऽऽकाशमिति गाथार्थः ॥ उक्तं प्राणापानद्वारम् अधुना इन्द्रियद्वार - मुच्यते
अक्खाणेयाणि परत्थगाणि वासाइवेह करणत्ता । गहवेयगनिज्जरओ कम्मस्सऽन्नो जहाहारो ॥ १८ ॥ भाष्यम् ॥
व्याख्या- 'अक्षाणि' इन्द्रियाणि 'एतानी'ति लोकप्रसिद्धानि देहाश्रयाणि 'परार्थानि' आत्मप्रयोजनानि, | वास्यादिवदिह करणत्वात् इहलोके वास्यादिवदिति प्रयोगार्थः । आह - आदानान्येवेन्द्रियाणि तत् किमर्थ भेदोपन्यासः ?, उच्यते, निर्वृत्युपकरणद्वारेण द्वैविध्यख्यापनार्थे, ततश्च तत्रोपकरणस्य ग्रहणमिह तु निर्वृत्तेरिति, प्रयोगस्तु-परार्थाश्चक्षुरादयः संघातत्वात्, शयनासनादिवत्, न चायं विशेषविरुद्धः कर्मसंबद्धस्यात्मनः संघातरूपत्वाभ्युपगमात् । गतमिन्द्रियद्वारम् अधुना बन्धादिद्वाराण्याह- ग्रहणवेदकनिर्जरकः कर्मणो ऽन्यो, यथाऽऽहार इति, तत्र ग्रहणं - कर्मणो बन्धः वेदनम् - उदयः निर्जरा-क्षयः, यथाऽऽहारे इति- आहारविषयाणि ग्रहणादीनि न कर्त्रादिव्यतिरेकेण तथा कर्मणोऽपीति प्रयोगार्थः, प्रयोगस्तु - विद्यमान भोक्तृकमिदं कर्म, ग्रह
For Private & Personal Use Only
४ षड्जीवनिकाध्य०
जीवसिद्धिः
॥ १२४ ॥
jainelibrary.org