SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ दिति दृष्टान्तः, भोग्यत्वं च देहस्य जीवेन तथा निवसतोपभुज्यमानत्वादिति । उक्तं परिभोगद्वारम्, अधुना योगद्वारमाह-अन्यप्रयोक्तृकाः खलु योगाः, योगा:-साधनानि मनःप्रभृतीनि करणानीति प्रतिज्ञार्थः, करणत्वादिति हेतुः, परशुवदिति दृष्टान्तः। भवति च विशेषे पक्षीकृते सामान्यं हेतुः-यथा अनित्यो वर्णात्मकः शब्दः, शब्दत्वात् , मेघशब्दवदिति गाथार्थः ॥ उक्तं योगद्वारं, साम्प्रतमुपयोगद्वारमाह उवओगा नाभावो अग्गिव्व सलक्खणापरिच्चागा । सकसाया णाभावो पजयगमणा सुवण्णं व ॥ १६ ॥ भाष्यम् । व्याख्या-'उपयोगात्' साकारानाकारभेदभिन्नान्नाभावो, जीव इति गम्यते, कुत इत्याह-खलक्षणापरित्यागाद् उपयोगलक्षणासाधारणात्मीयलक्षणापरित्यागात्, अग्निवदु, यथाऽग्निरौष्ण्यादिखलक्षणापरित्यागान्नाभावः तथा जीवोऽपीति प्रयोगार्थः, प्रयोगस्तु-सन्नात्मा, खलक्षणापरित्यागाद्, अग्निवदिति । उक्तमुपयोगद्वारम्, अधुना कषायद्वारमाह-सकषायत्वाद्-अचेतनविलक्षणक्रोधादिपरिणामोपेतत्वादित्यर्थः, नाभावो जीवः, कुत इत्याह-पर्यायगमनात्-क्रोधमानादिपर्यायप्राप्तेः, सुवर्णवत्, कटकादिपर्यायगमनोपेतसु-18 वर्णवदिति प्रयोगार्थः, प्रयोगस्तु-सन्नात्मा, पर्यायगमनात्, सुवर्णवदिति गाथार्थः ॥ उक्तं कषायद्वारम्, इदानीं लेश्याद्वारमाह लेसाओ णाभावो परिणमणसभावओ य खीरं व । उस्सासा णाभावो समसब्भावा खउ व्व नरो॥ १७ ॥ भाष्यम् ॥ व्याख्या-'लेश्यातो' लेश्यासद्भावेन नाभावो जीवः, किंतु भाव इति, कुत इत्याह-परिणमनखभावत्वात् Jain EducationHEWinna For Private Personel Use Only Khw.jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy