________________
CASC
441
दशवैका० हारि-वृत्तिः
॥१२२॥
SEARC
व्याख्या-'द्विविधाश्च' द्विप्रकाराश्च, चशब्दान्नवविधाश्च पृथिव्यादिद्वीन्द्रियादिभेदेन भवन्ति जीवाः, द्वैवि
४४ षड्जीवध्यमाह-सूक्ष्मास्तथा बादराश्च, तत्र सूक्ष्मनामकर्मोदयात्सूक्ष्मा बादरनामकर्मोदयाच बादरा इति, 'लोक' निकाय इति लोकग्रहणमलोके जीवभवनव्यवच्छेदार्थ, तत्र सूक्ष्माश्च सर्वलोक इति, चशब्दस्यावधारणार्थत्वात्सूक्ष्मा
जीवसिद्धिः एव सर्वलोकेषु, न बादराः, क्वचित्तेषामसंभवात्, 'द्वे एव चं' पर्याप्तकापर्याप्तकलक्षणे 'बादरविधाने बादरविधी, चशब्दात्सूक्ष्मविधाने च, तेषामपि पर्याप्तकापर्याप्तकरूपत्वादिति गाथार्थः । एतदेव स्पष्टयन्नाह
सुहुमा य सव्वलोए परियावन्ना भवंति नायव्वा। दो चेव बायराणं पजत्तियरे अ नायव्वा ॥१०॥भाष्यम्॥परूवणादारं गयं ति ॥ व्याख्या-सूक्ष्मा एव पृथिव्यादयः 'सर्वलोके' चतुर्दशरज्वात्मके 'पर्यायापन्ना भवन्ति ज्ञातव्याः' 'पर्यायापन्ना' इति तमेव सूक्ष्मपर्यायमापन्नाः भावसूक्ष्मा न तु भूतभाविनो द्रव्यसूक्ष्मा इति भावः । तथा द्वौ भेदौ । बादराणां पृथिव्यादीनां, चशब्दात् सूक्ष्माणां च, 'पर्याप्तकेतरौ ज्ञातव्यौ' पर्याप्तकापर्याप्तकाविति गाथार्थः ॥ उक्ता प्ररूपणा, अधुना लक्षणमुच्यते, तथा चाह भाष्यकार:
लक्खणमियाणि दारं चिंधं हेऊ अ कारणं लिंगं । लक्खणमिइ जीवस्स उ आयाणाई इमं तं च ॥ ११ ॥ भाष्यम् । व्याख्या-लक्षणमिदानी द्वारमवसरप्राप्तम्, अस्य च प्रतिपत्त्यङ्गतया प्रधानत्वात्सामान्यतस्तावत्तत्वरूप| मेवाह-चिह्न हेतुश्च कारणं लिङ्गं लक्षणमिति । तत्र चिहम्-उपलक्षणं, यथा पताका देवकुलस्य, हेतु:-नि
सा॥१२२॥ मित्तलक्षणं यथा कुम्भकारनैपुण्यं घटसौन्दर्यस्य, कारणम्-उपादानलक्षणं, यथा मृन्ममृणत्वं घटबलीय
Jain Education
na
For Private Personal use only
Maw.jainelibrary.org