SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ % A4 % A स्त्वस्य, लिंङ्ग-कार्यलक्षणं यथा धूमोऽग्ने, पर्यायशब्दा वा एत इति । लक्षणमित्येतल्लक्षणं लक्ष्यतेऽनेन परोक्षं वस्त्वितिकृत्वा, जीवस्य पुनरादानादि लक्षणमनेकप्रकारमिदं, तच्च वक्ष्यमाणमिति गाथार्थः॥ __ आयाणे परिभोगे जोगुवओगे कसायलेसा य । आणापाणू इंदिय बंधोदयनिज्जरा चेव ॥ २२३ ॥ चित्तं चेयण सन्ना विन्नाणं धारणा य बुद्धी अ । ईहामईवियका जीवस्स उ लक्खणा एए ॥ २२४ ॥ दारं ॥ व्याख्या-एतत्प्रतिद्वारगाथाद्वयम्, अस्य व्याख्या-आदानं परिभोगस्तथा योगोपयोगी कषायलेश्याश्च तथाऽऽनापानौ इन्द्रियाणि बन्धोदयनिर्जराश्चैव, तथा चित्तं चेतना संज्ञा विज्ञानं धारणा च बुद्धिश्च तथा पाईहामतिवितर्का जीवस्य तु लक्षणान्येतानि, तुशब्दस्यावधारणार्थत्वाज्जीवस्यैव नाजीवस्य इति प्रतिद्वारगाथाद्वयसमासार्थः॥ व्यासार्थस्तु भाष्यादवसेयः, तच्चेदम् लक्खिज्जइत्ति नजइ पञ्चक्खियरो व जेण जो अत्थो । तं तस्स लक्खणं खलु धूमुण्हाइ ब्व अग्गिस्स ॥ १२ ।। भाष्यम् ।। व्याख्या-लक्ष्यत इति ज्ञायते कोऽसावित्याह-'प्रत्यक्षः' अक्षगोचरापन्नः 'इतरो वा' परोक्षः 'येन' उष्णत्वादिना 'योऽर्थः' अग्न्यादिस्तत्तस्य लक्षणं खल्विति, तदेव स्पष्टयति-धूमौष्ण्यादिवदग्नेरिति, स ह्यौष्ण्येन प्रत्यक्षो लक्ष्यते, परोक्षो धूमेनेति गाथार्थः ॥ तत्रादानादीनां दृष्टान्तानाह... अयगार कर परसू अग्गि सुवण्णे अ खीरनरवासी । आहारो दिटुंता आयाणाईण जहसंखं ।। १३ ॥ भाष्यम् । व्याख्या-अयस्कारः कूरस्तथा परशुरग्निः सुवर्ण क्षीरनरवास्यः तथा आहारो दृष्टान्ता 'आदानादीनां | यस अत्यो । तं तस्याः 4 अक्षगान धूमोषण % AA% Jain Education in For Private Personal Use Only www.jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy