SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ जीवत्यासंसारं प्राणान् धारयति, अतो जीवनाजीव इति, तस्यैवौघायुष्ककर्मणो 'निर्जरया' क्षयेण, मृत इति, सर्वथा जीवनाभावात्, स च सिद्धो मृतो, नान्यः, विग्रहगतावपि तथाजीवनसद्भावात्, 'नयमतेनेति सर्वनयमतेनैव मृत इति गाथार्थः। उक्त ओघजीवितविशिष्ट ओघजीवः, साम्प्रतं भवजीवं तद्भवजीवं चाह जेण य धरइ भवगओ जीवो जेण य भवाउ संकमई। जाणाहि तं भवाउं चउब्विहं तब्भवे दुविहं ॥८॥ भाष्यम् ॥निक्खेवो त्ति गयं॥ व्याख्या-'येन च'नारकाद्यायुष्कण 'ध्रियते' तिष्ठति 'भवगतो नारकादिभवस्थितो जीवः, तथा 'येन च मनुष्याद्यायुष्केण 'भवात् नारकादिलक्षणात् 'संक्रामति' याति, मनुष्यादिभवान्तरमिति सामर्थ्याद्गम्यते, 'जानीहि' विद्धि, तदित्थंभूतं "भवायुः' भवजीवितं, चतुर्विधं नारकतिर्यमनुष्यामरभेदेन, तथा 'तद्भवे' तद्भवविषयम्, आयुरिति वर्तते, तच द्विविधं-तिर्यक्तद्भवायुर्मनुष्यतद्भवायुश्च, यस्मात्तावेव मृतौ सन्तौ भूयस्तस्मिन्नेव भव उत्पद्येते, नान्ये, तद्भवजीवितं च तस्मान्मृतस्य तस्मिन्नेवोत्पन्नस्य यत्तदुच्यत इति । अत्रापि च भावजीवाधिकारात्तद्भवजीवितविशिष्टश्च जीव एव ग्राह्यः, जीवितं तु तद्विशेषणत्वादुक्तमिति गाथार्थः॥ उक्तो निक्षेपः, इदानीं प्ररूपणामाह दुविहा य हुँति जीवा सुहुमा तह बायरा य लोगम्मि । सुहुमा य सव्वलोए दो चेव य बायरविहाणे ॥ ९ ॥ भाष्यम् ॥ पात नारकादिलयत तिष्टतिभा दुविहं ॥८॥ १ अत्र 'जीवत्यनेनेति जीव ओघेन सामान्येन जीव ओघजीवितविशिष्टो जीवः, मध्यमपदोत्तरपदलोपाद् इत्थं भवति' इत्यधिकं केषुचिदादर्शेषु. Jain Education For Private & Personal Use Only ainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy