SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ दशवैका हारि-वृत्तिः निकाया० ॥१२०॥ अवसरप्राप्त, किं तदित्याह-षड्जीवनिकाध्ययनम् , अत्रान्तरे अनुयोगद्वारोपन्यासावसरः, तथा चाह पड़्जीवतस्य' षड्जीवनिकाध्ययनस्यार्थाधिकाराः 'एते भवन्ति' वक्ष्यमाणलक्षणा इति गाथार्थः॥ तानाहजीवाजीवाहिगमो चरित्तधम्मो तहेव जयणा य । उवएसो धम्मफलं छज्जीवणियाइ अहिगारा ॥ २१६॥ एकषट्यो___ व्याख्या-'जीवाजीवाभिगमों' जीवाजीवखरूपमभिगम्यतेऽस्मिन्नित्यभिगम इतिकृत्वा, स्वरूपे च सत्यभि-निका गम्यत इति भावः, तथा 'चारित्रधर्म:' प्राणातिपातादिनिवृत्तिरूपः, तथैव 'यतना च' पृथिव्यादिष्वारम्भपरिहारयत्नरूपा, तथा 'उपदेशः' यथाऽऽत्मा न बध्यत इत्यादिविषयः, तथा 'धर्मफलम्' अनुत्तरज्ञानादि, एते षड्जीवनिकाया अधिकारा इति गाथार्थः । अत्रान्तरे गत उपक्रमः, निक्षेपमधिकृत्याह छज्जीवणियाए खलु निक्खेवो होइ नामनिष्फन्नो । एएसिं तिण्डंपि उ पत्तेयपरूवणं वोच्छं ॥ २१७ ।। व्याख्या-'षड्जीवनिकायायाः' प्रक्रान्तायाः खल्विति पूरणार्थों निपातः, निक्षेपो भवति नामनिष्पन्नः, षड्जीवनिकायिकेत्ययमेव, यतश्चैवमत एतेषां 'त्रयाणामपि षड्जीवनिकायपदानां 'प्रत्येक मिति एकमेक प्रति प्ररूपणां सूत्रानुसारेण 'वक्ष्ये' अभिधास्य इति गाथार्थः ॥ तत्रैकस्याभावे षण्णामभाव इत्येकमरूपणामाहणामं ठवणा दविए माउगपयसंगहेक्कए चेव । पजवभावे य तहा सत्तेए एकगा होति ॥ २१८ ॥ ॥१२०॥ नाम ठवणा दविए खेत्ते काले तहेब भावे अ । एसो उ छक्कगस्सा निक्खेवो छव्विहो होइ ॥ २१९ ॥ Jain Education For Private Personal Use Only w.jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy