________________
Jain Education Inte
॥ अथ चतुर्थाध्ययनम् ॥
अं मे आउसंते भगवया एवमक्खायं इह खलु छज्जीवणियानामज्झयणं समणेणं भगवया महावीरेणं कासवेणं पवेइया सुअक्खाया सुपन्नत्ता सेअं मे अहिजिउं अज्झणं धम्मपन्नत्ती ॥ ( सू० १ )
व्याख्यातं क्षुल्लिकाचारकथाध्ययनमिदानीं षड्जीवनिकायाख्यमारभ्यते, अस्य चायमभिसंबन्धः - इहानन्तराध्ययने 'साधुना धृतिराचारे कार्या न त्वनाचारे, अयमेव चात्मसंयमोपाय' इत्युक्तम्, इह पुनः स | आचारः षड्जीवनिकायगोचरः प्राय इत्येतदुच्यते, उक्तं च- "छसुं जीवनिकाएसु, जे बुहे संजए सया । से चेव होइ विण्णेए, परमत्थेण संजए ॥ १ ॥" इत्यनेनाभिसंबन्धेनायातमिदमध्ययनम्, आह च भाष्यकार:
जवाहारो भण्णइ आयारो तेणिमं तु आयायं । छज्जीवणियज्झयणं तस्सऽहिगारा इमे होंति ॥ भाष्यम् ॥ २१५ ॥ व्याख्या - जीवाधारो भण्यत आचारः, तत्परिज्ञानपालनद्वारेणेति भावः, येनैतदेवं तेनेदम् ' आयातम्' १ षट्सु जीवनिकायेषु यो बुधः संयतः सदा। स एव भवति विज्ञेयः परमार्थेन संयतः ॥ १ ॥
For Private & Personal Use Only
ainelibrary.org