________________
क्षिपक्ष्मप्रक्षालनमपि, सर्वलानं तु प्रतीतं ६, तथा 'गन्धमाल्यव्यजनं च गन्धग्रहणात्कोष्टपुटादिपरिग्रहः माल्यग्रहणाच ग्रथितवेष्टितादेर्माल्यस्य वीजनं तालवृन्तादिना धर्म एव, ७८-९ इदमनाचरितं, दोषाश्चौद्देशिकादिष्वारम्भप्रवर्तनादयः खधियाऽवगन्तव्या इति सूत्रार्थः ॥ इदं चानाचरितमित्याह-संनिहित्ति सूत्रम्, अस्य व्याख्या-संनिधीयतेऽनयाऽऽत्मा दुर्गताविति संनिधिः-घृतगुडादीनां संचयक्रिया १०, 'गृहिमात्र गृहस्थभाजनं च ११, तथा राजपिण्डो नुपाहारः, कः किमिच्छतीत्येवं यो दीयते स किमिच्छकः, राजपिण्डोऽन्यो वा सामान्येन १२, तथा 'संबाधनम् अस्थिमांसत्वग्रोमसुखतया चतुर्विधं मर्दनं १३, 'दन्तप्रधावनं' चाङ्गुल्यादिना क्षालनं १४, तथा 'संप्रश्नः' सावद्यो गृहस्थविषयः, राढाथै कीडशो वाऽहमित्यादिरूपः १५, 'देहप्रलोकनं च' आदर्शादावनाचरितम् १६, दोषाश्च संनिधिप्रभृतिषु परिग्रहप्राणातिपातादयः खधियैव वाच्या इति सूत्रार्थः॥ किंच-'अट्ठावए य' सूत्रम् , अस्य व्याख्या-अष्टापदं चेति, "अष्टापदं' द्यूतम् , अर्थपदं वा-गृहस्थमधिकृत्य नीत्यादिविषयमनाचरितं १७, तथा 'नालिका चेति द्यूतविशेषलक्षणा, यत्र मा भूत्कलयाऽन्यथा पाशकपातनमिति नलिकया पात्यन्त इति, इयं चानाचरिता १८, अष्टापदेन सामान्यतो चूतग्रहणे सत्यप्यभिनिवेशनिबन्धनत्वेन नालिकायाः प्राधान्यख्यापनार्थ भेदेन उपादानम्, अर्थपदमेवोतार्थ तदित्यन्ये अभिदधति, अस्मिन् पक्षे सकलद्यूतोपलक्षणार्थ नालिकाग्रहणम्, अष्टापदद्यूतविशेषपक्षे चोभयोरिति । तथा 'छत्रस्य च' लोकप्रसिद्धस्य धारणमात्मानं परं वा प्रत्यनायेति, आगाढग्लानाद्याल
SSSSSS
Jain Education Inter
For Private & Personel Use Only
R
ainelibrary.org