________________
दशवैका० हारि-वृत्तिः
अस्य व्याख्या-इह संहितादिक्रमः क्षुण्णः, भावार्थस्त्वयम्-'संयमें दुमपुष्पिकाव्यावर्णितस्वरूपे शोभ-३ क्षुल्लिकानेन प्रकारेण आगमनीत्या स्थित आत्मा येषां ते सुस्थितात्मानस्तेषां, त एवं विशेष्यन्ते-विविधम्-अनेकैः चारकथा. प्रकारैः प्रकर्षण-भावसारं मुक्ताः-परित्यक्ताः बाह्याभ्यन्तरेण ग्रन्थेनेति विप्रमुक्तास्तेषां, त एव विशेष्यन्ते-त्रा- अनाचीर्णयन्ते आत्मानं परमुभयं चेति त्रातारः, आत्मानं प्रत्येकबुद्धाः परं तीर्थकराः, स्वतस्तीर्णवाद, उभयं स्थविरा स्वरूपं इति, तेषामिदं-वक्ष्यमाणलक्षणं अनाचरितम्-अकल्प्यं, केषामित्याह-निर्ग्रन्थानां' साधूनामित्यभिधानमेतत्, महान्तश्च ते ऋषयश्च महर्षयो यतय इत्यर्थः, अथवा महान्तं एषितुं शीलं येषां ते महैषिणस्तेषां, इह च पूर्वपूर्वभाव एव उत्तरोत्तरभावो नियमितो हेतुहेतुमद्भावेन वेदितव्यः, यत एव संयमे सुस्थितात्मानोऽत एव विप्रमुक्ताः, संयमसुस्थितात्मनिबन्धनत्वाद्विप्रमुक्तः, एवं शेषेष्वपि भावनीयं, अन्ये तु पश्चानुपूर्त्या हेतुहेतुमद्भावमित्थं वर्णयन्ति-यत एव महर्षयोऽत एव निर्ग्रन्थाः, एवं शेषेष्वपि द्रष्टव्यमिति सूत्रार्थः ॥ साम्प्रतं यदनाचरितं तदाह-'उद्देसियंति उद्देशनं साध्वाद्याश्रित्य दानारम्भस्येत्युद्देशः तत्र भवमौदेशिकं १, क्रयणं-क्रीतं, भावे निष्ठाप्रत्ययः, साध्वादिनिमित्तमिति गम्यते, तेन कृतं-निवर्तितं क्रीतकृतं २, 'नियाग'मित्यामन्त्रितस्य पिण्डस्य ग्रहणं नित्यं न त्वनामन्त्रितस्य ३, "अभिहडाणि यत्ति खग्रामादेः साधुनिमित्तमभिमुखमानीतमभ्याहृतं, बहुवचनं स्वप्रामपरग्रामनिशीथादिभेदख्यापनार्थ४, तथा 'रात्रिभक्तं' रात्रिभोजनं |दिवसगृहीतदिवसभुक्तादिचतुर्भङ्गलक्षणं ५, 'स्वानं च देशसर्वभेदभिन्नं, देशलानमधिष्ठानशौचातिरेकेणा
।॥११६॥
515
Jain Educationairin
For Private & Personel Use Only
T
w
.jainalibrary.orm