SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ दशवैका ० हारि - वृत्तिः ॥ १०६ ॥ Jain Education | पञ्चसु समितिसु तिसृषु गुप्तिष्वस्मिन् विषये - एता आश्रित्य प्रणिधान योगयुक्तो य एष चारित्राचारः, आचाराचारवतोः कथंचिदव्यतिरेकादष्टविधो भवति ज्ञातव्यः, समितिगुप्तियोग भेदात्, समितिगुप्तिरूपं च शुभं प्रवीचाराप्रवीचाररूपं यथा प्रतिक्रमणे इति गाथार्थः ॥ उक्तश्चारित्राचारः, साम्प्रतं तपआचारमाह- द्वादशविधेऽपि तपसि - प्रथमाध्ययनोक्तखरूपे साभ्यन्तरबाह्येऽनशनादिप्रायश्चित्तादिलक्षणे कुशलदृष्टे-तीर्थकरोपलब्धे अ| ग्लान्या न राजवेष्टिकल्पेन यथाशक्त्या वा अनाजीविको निःस्पृहः फलान्तरमधिकृत्य यो ज्ञातव्योऽसौ तपआचारः, आचारतद्वतोरभेदादिति गाथार्थः । उक्तस्तपआचारः, अधुना वीर्याचारमाह-अनिगृहितबलवीर्यःअनिहुतबाह्याभ्यन्तरसामर्थ्यः सन् पराक्रमते - चेष्टते यो यथोक्तं षट्त्रिंशल्लक्षणमाचारमाश्रित्येति वाक्यशेषः, षट्त्रिंशद्विधत्वं चाचारस्य ज्ञानदर्शनचारित्राचाराणामष्टविधत्वात्तपआचारस्य च द्वादशविधत्वाच्चेति, उपयुक्त इत्यनन्यचित्तः, पराक्रमते ग्रहणकाले, तत ऊर्ध्वं युनक्ति च योजयति च प्रवर्तयति च यथोक्तं षट्त्रिंशल्लक्षणमाचारमिति सामर्थ्याद्गम्यते, यथास्थानं यथासामर्थ्य यो ज्ञातव्योऽसौ वीर्याचारः आचाराचार - वतोः कथश्चिदव्यतिरेकादिति गाथार्थः । अभिहितो वीर्याचारः, तदभिधानाच्चाचार इति, साम्प्रतं कथामाहअत्थकद्दा कामकहा धम्मका चैव मीसिया य कहा । एत्तो एक्केकावि य णेगविहा होइ नायव्वा ॥ १८८ ॥ विज्जासिप्पमुवाओ अणिवेओ संचओ य दक्खत्तं । सामं दंडो भेओ उवप्पयाणं च अत्थकहा ।। १८९ ॥ सत्थाहसुओ दक्खत्तणेण सेट्ठीसुओ य रूवेणं । बुद्धीऍ अमच्चसुओ जीवइ पुन्नेहिं रायसुओ ॥ १९० ॥ For Private & Personal Use Only ३ क्षुल्लिकाचारकथा० चारित्रतपआचारौ ॥ १०६ ॥ www.jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy