SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ CASRIGAMACHAR पडियं, एवं जो अप्पागम आयरियं निण्हवेऊण अन्नं कहेइ तस्स चित्तसंकिलेसदोसेणं सा विजा परलोए ण हवइत्ति, अनिण्हवणित्ति गयं । तथा व्यञ्जनार्थतदुभयान्याश्रित्य भेदो न कार्य इति वाक्यशेषः, एतदुक्तं भवति-श्रुतप्रवृत्तेन तत्फलमभीप्सता व्यञ्जनभेदोऽर्थभेद उभयभेदश्च न कार्य इति, तत्र व्यञ्जनभेदो यथा -धम्मो मंगलमुकिहमिति वक्तव्ये 'पुण्णं कल्लाणमुक्कोस'मिति, अर्थभेदस्तु यथा 'आवन्ती केयावन्ती लोगंसि विप्परामुसन्ती' त्यत्राचारसूत्रे यावन्तः केचन लोके-अस्मिन् पाखण्डिलोके विपरामृशन्तीत्येवंविधार्थाभिधाने अवन्तिजनपदे केया-रज्जुर्वान्ता-पतिता लोकः परामृशति कूप इत्याह, उभयभेदस्तु द्वयोरपि याथात्म्योपमर्देन यथा-'धर्मो मङ्गलमुत्कृष्टः अहिंसा पर्वतमस्तक' इत्यादि, दोषश्चात्र व्यञ्जनभेदेऽर्थभेदस्तद्भेदे क्रियाया भेदस्तद्भेदे मोक्षाभावस्तदभावे च निरर्थिका दीक्षेति, उदाहरणं चात्रांधीयतां कुमार इति सर्वत्र योजनीय, क्षुण्णत्वादनुयोगद्वारेषु चोक्तत्वान्नेह दर्शितमिति । अष्टविधः-अष्टप्रकारः कालादिभेदद्वारेण ज्ञानाचारो । -ज्ञानासेवनाप्रकार इति गाथार्थः ॥ उक्तो ज्ञानाचारः, साम्प्रतं चारित्राचारमाह-प्रणिधानं-चेतःखास्थ्यं तत्प्रधाना योगा-व्यापारास्तैर्युक्तः-समन्वितः प्रणिधानयोगयुक्तः, अयं चौघतोऽविरतसम्यग्दृष्टिरपि भवत्यत आह-पञ्चभिः समितिभिस्तिसृभिश्च गुप्तिभिर्यः प्रणिधानयोगयुक्तः, एतद्योगयुक्त एतद्योगवानेव, अथवा १ पतितं, एवं योऽल्पागमामाचार्य निडूयान्यं कथयति तस्य चित्तसंक्लिटतादोषेण सा विद्या परलोके न भवति । अनिहव इति गतं । ***OGAISAIASCAIRO Jain Education For Private Personel Use Only Verjainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy