________________
२श्रामण्यपूर्वकाध्य पदनिक्षेपाः
+
दशवका० विशेषाःतत्थं किल कोणएण तंती छिप्पइ तओ पहेहि अणुमजिजइ, तत्य अण्णारिसो सरो उद्वेइ, सो हारि-वृत्तिःलयो त्ति गाथार्थः॥१७३ ॥ साम्प्रतं चौर्ण पदमाह-अर्थों बहुलो यस्मिंस्तदर्थबहुलम्, 'कचित्प्रवृत्तिः कचि
दप्रवृत्तिः, कचिद्विभाषा कचिदन्यदेव । विधेर्विधानं बहुधा समीक्ष्य, चतुर्विधं बाहुलकं वदन्ति ॥१॥ ततश्वेभिः प्रकारबह्वर्थम् , महान्-प्रधानो हेयोपादेयप्रतिपादकत्वेनार्थो यस्मिंस्तन्महार्थम्, 'हेतुनिपातोपसगैंर्गभीरम्' तत्रान्यथाऽनुपपत्तिलक्षणो हेतुः, यथा-मदीयोऽयमश्वो विशिष्टचिह्नोपलक्षितत्वात्, चवाखल्वादयो निपाताः, पर्युतसमवादय उपसर्गाः, एभिरगाधम्, 'बहुपादम्' अपरिमितपादम् 'अव्यवच्छिन्नं श्लोकवद्विरामरहितम् , गमनयैः शुद्धम् , गमा:-तदक्षरोचारणप्रवणा भिन्नार्थाः, यथा 'इह खलु छज्जीवणिया० कयरा खलु सा छज्जीवणिया०' इत्यादि, नया:-नैगमादयः प्रतीताः, तुरवधारणे, गमनयशुद्धमेव चौर्ण पदं ब्रह्मचर्याध्ययनपदवदिति गाथार्थः ॥ १७४ ॥ उक्तं ग्रथितं, प्रकीर्णकं लोकादवसेयम्, उक्तं नोअपराधपदम्, अधुना अपराधपदमाह
इंदियविसयकसाया परीसहा वेयणा य उवसग्गा । एए अवराहपया जत्थ विसीयंति दुम्मेहा ॥ १७५ ॥ व्याख्या-इन्द्रियाणि-स्पर्शनादीनि विषयाः-स्पर्शादयः कषायाः-क्रोधादयः इन्द्रियाणि चेत्यादिद्वन्दः, 'परीषहाः' क्षुत्पिपासादयः 'वेदना' असातानुभवलक्षणा उपसर्गा-दिव्यादयः, एतानि 'अपराधपदानि' १ तत्र किल कोणकेन तन्त्री स्पृश्यते, ततो नखैरनुमृद्यते, तत्रान्यादृशः खर उत्तिष्ठते, स लय इति । २ इह खलु षड्जीवनिका कतरा खलु सा षड्जीवनिका.
-
SEKS2454545
-
Jain Education inte
For Private & Personal Use Only