________________
SHAHISISUSTUS ROSAS
गद्यलक्षणमाह-मधुरं' सूत्रार्थोभयैः श्रव्यम् ‘हेतुनियुक्तं' सोपपत्तिकम् 'ग्रथितं' बद्धमानुपूर्व्या 'अपादं विशिष्टच्छन्दोरचनायोगात्पादवर्जितम् विरामः-अवसानं तत्संयुक्तमर्थतो न तु पाठतः इत्येके, जहा-जिणवरपादारविंदसंदाणिउरुणिम्मल्लसहस्स एवमादि असमाणिउं न चिट्ठइत्ति, यतिविशेषसंयुक्तं अन्ये, अपरिमितं चावसाने बृहद्भवतीत्येके, अन्ये त्वपरिमितमेव भवति बृहदित्यर्थः, अवसाने मृदु पव्यत इति शेषः,
काव्यं गद्यम्, 'इति' एवंप्रकारं ज्ञातव्यमिति गाथार्थः ॥ १७१ ॥ अधुना पद्यमाह-पद्यं तु, तुशब्दो विशेषPणार्थः, भवति 'त्रिविधं त्रिप्रकारं, सममर्धसमं च नाम विषमं च, कैः सममित्यादि ?, अत्राह-पादैरक्षरैश्च,
पादैः चतुःपादादिभिरक्षरैः गुरुलघुभिः, अन्ये तु व्याचक्षते-समं यत्र चतुर्वपि पादेषु समान्यक्षराणि, अर्धसमं यत्र प्रथमतृतीययोर्द्वितीयचतुर्थयोश्च समान्यक्षराणि, विषमं तु सर्वपादेष्वेव विषमाक्षरमित्येवं विधिज्ञाः' छन्दःप्रकारज्ञाः कवयो ब्रुवत इति गाथार्थः ॥ १७२ ॥ अधुना गेयमाह-तत्रीसमं तालसमं वर्णसमं ग्रहसमं लयसमं च काव्यं तु भवति, तुशब्दोऽवधारणार्थ एव, गीयत इति गेयं, 'पञ्चविधम् उक्तैर्विधिभिः 'गीतसंज्ञायां गेयाख्यायाम्, तत्र तत्रीसमं वीणादितत्रीशब्देन तुल्यं मिलितं च, एवं तालादिष्वपि.योजनीयम् , नवरं ताला-हस्तगमाः, वर्णा-निषादपश्चमादयः, ग्रहा-उत्क्षेपाः, प्रारम्भरसविशेषा इत्यन्ये, लया:-तनीखन
१ यथा जिनवरपादारविन्दसंदानितोरुनिमलसहस्र एवमाद्यसमाप्य न तिष्ठति.
JainEducation
For Private
Personal Use Only
Haw.jainelibrary.org