________________
Jain Education
मकादि, तेहा बउलादिपुष्पसंठाणाणि चिक्खिल्लमयपडिबिंबगाणि कार्ड पञ्चंति, तओ तेसु वग्घारिता म यणं छुन्भति, तओ मयणमया पुप्फा हवन्ति, एतदुपनेयम्, पीडावच - संवेष्टितवस्त्रभङ्गावलीरूपं, रत्तावयवच्छविविचित्तरूवं रङ्गं चः समुच्चये, 'ग्रथितं' मालादि, 'वेष्टिमं' पुष्पमयमुकुटरूपं, चिकिखल्लमयं कुण्डिकारूपं अणेगच्छिदं पुप्फथामं पूरिमं, वातत्र्यं कुविन्दैर्वस्त्रविनिर्मितमश्वादि, संघात्यं - कक्षुकादि, छेद्यं - पत्रच्छेद्यादि । पदता चास्य पयतेऽनेनेत्यर्थयोगात्, द्रव्यता च तद्रूपत्वादिति गाथार्थः ॥ १६७ ॥ उक्तं द्रव्यपदम् अधुना
भावपदमाह
भावपयंपि य दुविहं अवराहपयं च नो य अवराहं । नोअवराहं दुविहं माउगनोमाउगं चेव ॥ १६८ ॥
व्याख्या - भावपदमपि च द्विविधम्, द्वैविध्यमेव दर्शयति- अपराधहेतुभूतं पदमपराधपदम् - इन्द्रियादि वस्तु, चशब्दः स्वगतानेकभेदसमुच्चयार्थः, 'णोअवराहं 'ति चशब्दस्य व्यवहितोपन्यासान्नो अपराधपदं च, चः पूर्ववत्, नोअपराधमिति - नोअपराधपदं द्विविधम्- 'माउअ नोमाउअं चेव'त्ति मातृकापदं नोमातृका - पदं च तत्र मातृकापदं मातृकाक्षराणि, मातृकाभूतं वा पदं मातृकापदं, यथा दृष्टिवादे "उत्पन्ने इ वा " इत्यादि, नोमातृकापदं त्वनन्तरगाथया वक्ष्यतीति गाथार्थः ॥ १६८ ॥
१ तथा बकुलादिपुष्पसंस्थानानि कर्दममयप्रतिविम्बानि कृत्वा पच्यन्ते ततस्तेषु उष्णीकृत्य मदनं क्षिप्यते, ततो मदनमयानि पुष्पाणि भवन्ति २ रतावयवच्छविविचित्ररूपम्. ३ कर्दममयं कुण्डिकारूपम् अनेकच्छिद्रं पुष्पस्थानम्.
For Private & Personal Use Only
ww.jainelibrary.org