SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ द्वयापार इत्यन्ये, या आह-वेदोपयोगः' वेयत कामानाह-मदने' इति पर धर्म इच्छा पसत्थमपसत्थिगा य मयणमि वेयउवओगो । तेणहिगारो तस्स उ वयंति धीरा निरुत्तमिणं ॥ १६३ ॥ व्याख्या-इच्छा प्रशस्ता अप्रशस्ता च, अनुखारोऽलाक्षणिकः सुखमुखोचारणार्थः, तत्र प्रशस्ता धर्मेच्छा मोक्षेच्छा, अप्रशस्ता युद्धेच्छा राज्येच्छा, उक्ता इच्छाकामाः, मदनकामानाह–'मदने' इति उपलक्षणार्थत्वान्मदनकामे निरूप्ये कोऽसावित्यत आह-वेदोपयोगः' वेद्यत इति वेदः-स्त्रीवेदादिस्तदुपयोगः-तद्विपा-| कानुभवनम् , तद्वयापार इत्यन्ये, यथा स्त्रीवेदोदयेन पुरुषं प्रार्थयत इत्यादि, 'तेनाधिकार' इति मदनकामेन, शेषा उच्चारितसदृशा इति प्ररूपिताः, 'तस्य तु' मदनकामस्य वदन्ति 'धीराः' तीर्थकरगणधरा निरुक्तम्, 'इदं वक्ष्यमाणलक्षणमिति गाथार्थः॥१६३ ॥ विसयसुहेसु पसत्तं अबुहजणं कामरागपडिबद्धं । उक्कामयंति जीवं धम्माओ तेण ते कामा ॥ १६४ ॥ व्याख्या-विषीदन्ति-अवबध्यन्ते एतेषु प्राणिन इति विषयाः-शब्दादयः तेभ्यः सुखानि तेषु प्रसक्तःआसक्तस्तं, जीवमिति योगः, स एव विशेष्यते-अबुधः-अविपश्चिजन:-परिजनो यस्य सः अबुधजनस्तम्, अकल्याणमित्रपरिजनमित्यर्थः, अनेन बाह्यं विषयसुखप्रसक्तिहेतुमाह, 'कामरागप्रतिबद्ध'मिति कामामदनकामास्तेभ्यो रागा-विषयाभिष्वङ्गास्तैः प्रतिबद्धो-व्याप्तस्तम्, अनेन त्वान्तरं विषयसुखप्रसक्तिहेतुमाह, ततश्चाबुधजनत्वात्कामरागप्रतिबद्धत्वाच विषयसुखेषु प्रसक्तमिति भावः, किम् ?-निरुक्तवैचित्र्यादाहतत्प्रत्यनीकत्वादुत्क्रामयन्ति-अपनयन्ति जीवमनन्तरविशेषितम् , कुतो?, धर्मात्, यत्तदोर्नित्याभिसंबन्धात् CANADASANCHARACLOSAROKAUSAMS JainEducationK E For Private Personal Use Only jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy