________________
दशवैका० हारि-वृत्तिः
॥ ८५ ॥
Jain Education
कारणमाह - 'पदे पदे विषीदन् संकल्पस्य वशं गतः' कामानिवारणेनेन्द्रियाद्यपराधपदापेक्षया पदे पदे वि षीदनात्संकल्पस्य वशंगतत्वात् । [ अप्रशस्ताध्यवसायः संकल्पः ] इति सूत्रसमासार्थः ॥ १ ॥ अवयवार्थं तु सूत्रस्पर्शनियुक्त्या प्रतिपादयति तत्रापि शेषपदार्थान् परित्यज्य कामपदार्थस्य हेयतयोपयोगित्वात्ख
रूपमाह
नामंठवणाकामा दव्वकामा य भावकामा य । एसो खलु कामाणं निक्खेवो चडविहो होइ ॥ १६९ ॥ व्याख्या-नामस्थापनाकामा इत्यत्र कामशब्दः प्रत्येकमभिसंबध्यते, द्रव्यकामाश्च भावकामाश्च चशब्दौ स्वगतानेक भेदसमुच्चयार्थी, एष खलु कामानां निक्षेपश्चतुर्विधो भवतीति गाथार्थः ॥ १६१ ॥ तत्र नामस्थापने क्षुण्णत्वादनादृत्य द्रव्यकामान् प्रतिपादयन्नाह -
सद्दरसरूवगंधाफासा उदयंकरा य जे दव्वा । दुविहा य भावकामा इच्छाकामा मयणकामा ॥ १६२ ॥ व्याख्या-शब्दरसरूपगन्धस्पर्शाः मोहोदयाभिभूतैः सत्त्वैः काम्यन्त इति कामाः, मोहोदयकारीणि च यानि द्रव्याणि संघाटकविकटमांसादीनि तान्यपि मदनकामाख्यभावकामहेतुत्वाद्रव्यकामा हुति, भावकामानाह - 'द्विविधाश्च' द्विप्रकाराश्च भावकामाः, इच्छाकामा मदनकामाश्च तत्रैषणमिच्छा सैव चित्ताभिलाषरूपत्वात्कामा इतीच्छाकामाः, मदयतीति तथा मदनः - चित्रो मोहोदयः स एव कामप्रवृत्तिहेतुत्वात्कामा मदनकामा इति गाथार्थः ॥ १६२ ॥ इच्छाकामान् प्रतिपादयति
For Private & Personal Use Only
२ श्रामण्य
पूर्वकाध्य ०
कामनि
क्षेपाः
॥ ८५ ॥
jainelibrary.org