SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ इत्यादि आवलिकाया वा समय इत्यादि, दिक्पूर्व पूर्वा दिग, इयं च रुचकापेक्षया, तापक्षेत्रपूर्वम्-आदित्योदयमधिकृत्य यत्र या पूर्वा दिक, उक्तं च-"जस्स जओ आदिचो उदेह सा तस्स होइ पुवदिसा” इत्यादि, प्रज्ञापकपूर्व-प्रज्ञापनं (क) प्रतीत्य पूर्वा दिक् यदभिमुख एवासौ सैव पूर्वा, पूर्वपूर्व चतुर्दशानां पूर्वाणामाद्यं, तच्च उत्पादपूर्वम् , एवं वस्तुप्राभृतातिप्राभृतेष्वपि योजनीयम् , अप्रत्यक्षखरूपाणि चैतानि, भावपूर्वम्-आद्यो भावः स चौदयिक इति गाथार्थः ॥ १६०॥ उक्तो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्ननिक्षेपस्यावसरः, इत्यादिचर्चः पूर्ववत्तावद्यावत्सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम्, तच्चेदम्___ कहं नु कुजा सामण्णं, जो कामे न निवारए । पए पए विसीदंतो, संकप्पस्स वसं गओ? ॥१॥ अस्य व्याख्या-इह च संहितादिक्रमेण प्रतिसूत्रं व्याख्याने ग्रन्थगौरवमिति तत्परिज्ञाननिवन्धनं भावार्थमात्रमुच्यते-तत्रापि कत्यहं कदाहं कथमहमित्याद्यदृश्यपाठान्तरपरित्यागेन दृश्यं व्याख्यायते-'कथं नु कुर्याच्छामण्यं यः कामान्न निवारयति? 'कथं' केन प्रकारेण,नु क्षेपे, यथा कथं नु स राजा यो न रक्षति?, कथं नु स वैयाकरणो योऽपशब्दान् प्रयुङ्क्ते, एवं कथं नु स कुर्यात् 'श्रामण्यं श्रमणभावं यः कामान् 'न निवारयति' न प्रतिषेधते, किमिति न करोति ?, तत्र "निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शनम्" इति वचनात् १ यस्य यत आदित्य उदेति सा तस्य भवति पूर्वदिग्. २ पूर्ववृत्तौ दर्शनेऽप्यादर्शेषु दृश्यमानेष्वदृश्यमानता दश.१५ Jan Education For Private Personel Use Only dow.jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy