SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ दशवैका ० हारि-वृत्तिः 11 28 11 Jain Education तप इति गम्यते, तपोऽस्यास्तीति तापसः, भिक्षणशीलो भिक्षुः भिनत्ति वाऽष्टप्रकारं कर्मेति भिक्षुः परिसमन्तात्पापवर्जनेन व्रजति गच्छतीति परिव्राजकः, चः समुच्चये, श्रमणः पूर्ववत्, निर्गतो ग्रन्थान्निर्ग्रन्थः बाह्याभ्यन्तरग्रन्थरहित इत्यर्थः, सम्-एकीभावेनाहिंसादिषु यतः - प्रयत्नवान् संयतः, मुक्तो बाह्याभ्यन्तरेण ग्रन्थेनैवेति गाथार्थः ॥ १५८ ॥ तिने ताई दविए मुणी य खंते य दन्त विरए य । लूहे तीरहेऽविय हवंति समणस्स नामाई ॥ १५९ ॥ व्याख्या -तीर्णवांस्तीर्णः, संसारमिति गम्यते, त्रायत इति त्राता, धर्मकथादिना संसारदुःखेभ्य इति भावः, | रागादिभावरहितत्वाद्रव्यम्, द्रवति-गच्छति ताँस्तान् ज्ञानादिप्रकारानिति द्रव्यम्, मुनिः पूर्ववत्, चः समुचये, क्षाम्यतीति क्षान्तः - क्रोधविजयी, एवमिन्द्रियादिदमनाद्दान्तः, विरतः - प्राणातिपातादिनिवृत्तः, स्नेहपरित्यागाद्र्क्षः, तीरेणार्थोऽस्येति तीरार्थी, संसारस्येति गम्यते, तीरस्थो वा सम्यक्त्वादिप्राप्तेः संसारपरिमा णात्, एतानि भवन्ति श्रमणस्य 'नामानि' अभिधानानीति गाथार्थः ॥ १५९ ॥ निरूपितः श्रमणशब्दः, अधुना पूर्वशब्दश्चिन्त्यते - अस्य च त्रयोदशविधो निक्षेपः, तथा चाह 'णामं ठवणा दविए खेत्ते काले दिसि तावखेत्ते य । पन्नवगपुब्ववत्थू पाहुडअइपाहुडे भावे ।। १६० ।। व्याख्या-नामस्थापने क्षुण्णे, द्रव्यपूर्वम् अङ्कुराद्वीजं दनः क्षीरं फाणिताद्रस इत्यादि, क्षेत्रपूर्व यवक्षेत्राच्छालिक्षेत्रं, तत्पूर्वकत्वात्तस्य, अपेक्षया चान्यथाऽप्यदोषः, कालपूर्व पूर्वः कालः शरदः प्रावृट्टू रजन्या दिवस For Private & Personal Use Only २ श्रमण्य पूर्वकाध्य० श्रमणप र्याया० ॥ ८४ ॥ jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy