SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter त्यागतो नम्रेण, वातसमेनेति पूर्ववत्, वञ्जुलो - वेतसस्तत्समेन क्रोधादिविषाभिभूतजीवानां तदपनयनेन, एवं हि श्रूयते किल वेतसमवाप्य निर्विषा भवन्ति सर्पा इति, कर्णिकारसमेनेति तत्पुष्पवत्प्रकटेन अशुचिगन्धा|पेक्षया च निर्गन्धेनेति, उत्पलसदृशेन प्रकृतिधवलतया सुगन्धित्वेन च, भ्रमरसमेनेति पूर्ववत्, उन्दुरुसमेन उपयुक्तदेशकालचारितया, नटसमेन तेषु तेषु प्रयोजनेषु तत्तद्वेषकरणेन, कुर्कुटसमेन संविभागशीलतया, स हि किल प्राप्तमाहारं पादेन विक्षिप्यान्यैः सह भुङ्क्त इति, आदर्शसमेन निर्मलतया तरुणाद्यनुवृत्तिप्रतिबिम्बभावेन च, उक्तं च- "तरुणंमि होइ तरुणो थेरो थेहिं डहरए डहरो । अद्दाओविव रूवं अणुयत्तह जस्स जं सीलं ॥ १ ॥ एवंभूतेन श्रमणेन भवितव्यमिति गाथार्थः ॥ इयं किल गाथा भिन्नकर्तृकी, अतः पवनादिषु न पुनरुक्तदोष इति ॥ १ ॥ साम्प्रतं 'तत्त्वभेदपर्यायैर्व्याख्ये 'ति न्यायाच्छ्रमणस्यैव पर्यायशब्दानभिधित्सुराह— पव्वइए अणगारे पासंडे चरग तावसे भिक्खू । परिवाइए य समणे निग्गंथे संजए मुते ॥ १५८ ॥ व्याख्या- प्रकर्षेण ब्रजितो गतः प्रब्रजितः, आरम्भपरिग्रहादिति गम्यते, अगारं गृहं तदस्यास्तीत्यगारोगृही न अगारोऽनगारः, द्रव्यभावगृहरहित इत्यर्थः, पाखण्डं व्रतं तदस्यास्तीति पाखण्डी, उक्तं च - " पाखण्डं व्रतमित्याहुस्तद्यस्यास्त्यमलं भुवि । स पाखण्डी वदन्त्यन्ये, कर्मपाशाद्विनिर्गतः (तम् ) ॥ २ ॥ चरतीति चरकः १ तरुणे भवति तरुणः स्थविरः स्थविरेषु वाले बालः । आदर्श इव रूपमनुवर्त्तते यस्य यच्छीलम् ॥ १ ॥ For Private & Personal Use Only ainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy