________________
दशवैका हारि-वृत्तिः
SHILOSASSASSISTICAS
तो समणो जइ सुमणो भावेण व जइ न होइ पावमणो । सयणे व जणे य समो समो व माणावमाणेसु ॥ १५६ ॥ ४२श्रमण्यव्याख्या-ततः श्रमणो यदि सुमनाः, द्रव्यमनः प्रतीत्य, भावेन च यदि न भवति पापमनाः, एतत्फलमेव पूर्वकाध्य० दर्शयति-खजने च जने च समः, समश्च मानापमानयोरिति गाथार्थः॥१५६॥
श्रमणपूर्वउरगगिरिजलणसागरनहयलतरुगणसमो य जो होई । भमरमिगधरणिजलरुहरविपवणसमो जओ समणो ॥ १५७ ॥
योनिक्षेपाः व्याख्या-उरगसमः परकृतविलनिवासिवादाहारानास्वादनात्संयमैकदृष्टित्वाच, गिरिसमः परीषहपवनाकम्प्यत्वात्, ज्वलनसमः तपस्तेजःप्रधानत्वात् तृणादिष्विव सूत्रार्थेष्वतृप्तेः एषणीयाशनादौ चाविशेषप्रवृत्तेरिति, सागरसमो गम्भीरत्वाज्ज्ञानादिरत्नाकरत्वात् खमर्यादानतिक्रमाच्च, नभस्तलसमः सर्वत्र निरालम्बनत्वात्, तरुगणसमः अपवर्गफलार्थिसत्त्वशकुनालयत्वात् वासीचन्दनकल्पत्वाच, भ्रमरसमः अनियतवृत्तित्वात्, मृगसमः संसारभयोद्विग्नत्वात्, धरणिसमः सर्वखेदसहिष्णुत्वात्, जलरुहसमः कामभोगोद्भवत्वेऽपि पङ्कजलाभ्यामिव तदूर्ध्ववृत्तः, रविसमः धर्मास्तिकायादिलोकमधिकृत्य विशेषेण प्रकाशकत्वात्, पवनसमः अप्रतिबद्धविहारित्वात्, इत्थमुरगादिसमश्च यतो भवति ततः श्रमण इति गाथार्थः ॥१५७ ॥
___विसतिणिसवायवंजुलकणियारुप्पलसमेण समणेणं । भमरुंदुरुनडकुक्कुडअद्दागसमेण होयव्वं ॥ १॥ (प्र.) व्याख्या-श्रमणेन विषसमेन भवितव्यं भावतः सर्वरसानुपातित्वमधिकृत्य, तथा तिनिशसमेन मानपरि१ विषे सर्वरसानामन्तर्भावात् , न तेषामनुभवस्तस्मिन्.
॥
3
Join Education Intel
For Private & Personal Use Only
w.jainelibrary.org