________________
समणस्स उ निकखेवो चउक्कओ होइ आणुपुब्बीए । दवे सरीरभविओ भावेण उ संजओ समणो ॥ १५३ ॥ व्याख्या-'श्रमणस्य तु तुशब्दोऽन्येषां च मङ्गलादीनामिह तु श्रमणेनाधिकार इति विशेषणार्थः, निक्षेपश्चतुर्विधो भवति, 'आनुपू' नामादिक्रमेण, नामस्थापने पूर्ववत्, द्रव्यश्रमणो द्विधा-आगमतो नोआगमतश्च, आगमतो ज्ञाताऽनुपयुक्तः, नोआगमतस्तु ज्ञशरीरभव्यशरीरतद्व्यतिरिक्तोऽभिलापभेदेन दुमवदवसेया, तं चानेनोपलक्षयति-दव्वे सरीरभविउत्ति । भावश्रमणोऽपि द्विविध एव-आगमतो ज्ञातोपयुक्तः नोआगमतस्तु चारित्रपरिणामवान् यतिः, तथा चाह-भावतस्तु संयतः श्रमण इति गाथार्थः ॥ १५३ ॥ अस्यैव खरूपमाह
जह मम न पियं दुक्खं जाणिय एमेव सब्वजीवाणं । न हणइ न हणावेइ य सममणई तेण सो समणो ॥ १५४ ॥ | व्याख्या-यथा मम न प्रियं दुःखं, प्रतिकूलत्वात्, ज्ञात्वैवमेव सर्वजीवानां दुःखप्रतिकूलत्वम् न हन्ति खयं न घातयत्यन्यैः, चशब्दाद् घन्तं च नानुमन्यतेऽन्यम् , इत्यनेन प्रकारेण समम् अणति-तुल्यं गच्छति यतस्तेनासौ श्रमण इति गाथार्थः ॥१५४॥
नथि य सि कोइ वेसो पिओ व सव्वेसु चेव जीवेसु । एएण होइ समणो एसो अन्नोऽवि पज्जाओ ॥ १५५ ॥ व्याख्या-नास्ति च 'सि' तस्य कश्चिद् द्वेष्यः प्रियो वा सर्वेष्वेव जीवेषु, तुल्यमनस्त्वात्, एतेन भवति सममनाः, समं मनोऽस्येति सममनाः, एषोऽन्योऽपि पर्याय इति गाथार्थः॥१५५॥
nin Education
ला
For Private & Personal Use Only
Jainelibrary.org