________________
श्रमण्य
दशवैका. हारि-वृत्तिः
पूर्वकाध्य
॥८२॥
श्रमणपूर्वयोनिक्षेपाः
व्याख्यातं द्रमपुष्पिकाध्ययनम्, अधुना श्रामण्यपूर्वकाख्यमारभ्यते, अस्य चायमभिसंबन्धः, इहानन्तरा- ध्ययने धर्मप्रशंसोक्ता, सा चेहैव जिनशासन इति, इह तु तदभ्युपगमे सति मा भूदभिनवप्रवजितस्याधृतेः संमोह इत्यतो धृतिमता भवितव्यमित्येतदुच्यते, उक्तं च-"जस्स धि तस्स तवो जस्स तवो तस्स मुरगई सुलभा जे अधिइमंत पुरिसा तवोऽवि खलु दुल्लहो तेसिं ॥१॥” अनेनाभिसंबन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि पूर्ववत्, नवरं नार्मवध्ययनविषयत्वादुपक्रमादिद्वारकलापस्य व्याप्तिप्राधान्यतो नामनिष्पन्न निक्षेपमभिधित्सुराह नियुक्तिकारः
सामण्णपुव्वगस्स उ निकखेवो होइ नामनिष्फन्नो । सामण्णस्स चउको तेरसगो पुव्वयस्स भवे ॥ १५२ ॥ व्याख्या-श्राम्यतीति श्रमणः, [श्राम्यति तपस्यति तद्भावः श्रामण्यं, तस्य पूर्व-कारणं श्रामण्यपूर्व तदेव श्रामण्यपूर्वकमिति संज्ञायां कन्, श्रामण्यकारणं च धृतिः, तन्मूलत्त्वात्तस्य, तत्प्रतिपादकं चेदमध्ययनमिति भावार्थः। अतः श्रामण्यपूर्वकस्य तु निक्षेपो भवति नामनिष्पन्नः, कोऽसौ ?-अन्यस्याश्रुतत्त्वात् श्रामण्यपूर्वकमित्ययमेव, तुशब्दः सामान्यविशेषवन्नामविशेषणार्थः, श्रामण्यपूर्वकमिति सामान्यम्, श्रामण्यं पूर्व चेति विशेषः, तथा चाह-श्रामण्यस्य चतुष्ककस्त्रयोदशकः पूर्वकस्य भवेन्निक्षेप इति गाथार्थः ॥१५२॥ निक्षेपमेव विवृणोति
१ यस्य धृतिस्तस्य तपो यस्य तपस्तस्य सुगतिः सुलभा । येऽतिमन्तः पुरुषास्तपोऽपि खळु दुर्लभं तेषाम् ॥ १॥ २ रूढनामेति ३ नामनिष्पन्ननिक्षेपस्य.
954545555
JainEducational
For Private Personal use only